________________
प्रदीप
जातमात्रेण सम्प्राप्तमशोकदत्तराज्यकम् । जिनेन्द्ररथयात्रा च, प्रयाति कुत्रचिदिने ॥३॥ संघेन बहुहर्षेण, अतीवाडम्बरेण च । सम्पूर्णनगरे तत्र, भ्रामिता रथयात्रिका ॥४॥ आर्यसुहस्तिभिः साकं, सुसाधुवृन्दकं तथा । प्रचुरं च समायातं, धर्मोन्नतिनिमित्ततः ॥८॥ राजमार्गे समायाते, सम्राट् च सम्प्रतिस्तदा । सम्मुखे च समायाति, दृष्टा च रथयात्रिका ॥६॥ तन्मध्ये गुरुदेवं च, दृष्ट्वा चिन्तति मानसे । नेपथ्यं तादृशं चैव, पूर्व दृष्टं मया कचिद् ॥८॥ दर्शनाद् गुरुदेवानां, जातिस्मृतिरजायते । धन्योऽहं कृतकृत्योऽहं, जातं गुरोश्च दर्शनम् ॥८८ पूर्वभवं च संस्मृत्य, गुरुपादान्तिके तदा। आगत्यैव नमस्कारं, करोति शुद्धभावतः ॥६॥ रङ्कावस्था मदीया क क च राज्यस्य योग्यता। जातमात्रेण सम्प्राप्त, राज्यं च भारतं खलु ॥१०॥ एतत्सर्वगुरूणां च, कृपया समवाप्तकम् । गुरुकृपा च किं किं नो, कार्य चैव करिष्यति ॥६१
Shree Shaharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com