________________
[६६६]
योगअतिगरिष्ठ भोज्यं च, रुक्षदेहे न पच्यते । भक्षितं प्रचुरं तेन, देहपीडा ततो भवेत् ॥७४ देहे व्याधिः समुत्पन्ना, अतीव प्राणघातिनी । तदीयभक्तिकर्त्तव्ये, श्रेष्ठिनस्ते समागताः ॥७॥ तान् दृष्ट्वा मानसे स्वीये, व्यचिन्तयत्स साधुराट्। अहो संयमसाम्राज्यं, मीलितं गुरुयोगतः ॥७६॥ ददति ये न मे भिक्षां, तेऽपि सेवासु चागताः। सेवां च तादृशीं दृष्ट्वा, जाता धर्मेषु रागता ॥७७ धन्योऽहं कृतकृत्योऽहं, मानुष्यं सफलं मम । जैनधर्मस्य सम्प्राप्तिः, विना पुण्यं न जायते ॥८॥ चिन्तामणिमहारत्नं, रङ्कगृहे न राजते। मादृशरङ्कहस्ते च, तदपि चागतं प्रभो ! ॥७॥ तदेवं युण्ययोगेन, लब्धं गुरुप्रसादतः । धन्यास्ते गुरवो ज्ञेया, धन्यो धर्मश्च सर्वदा ॥८॥ इत्येवं भावनां कृत्वा, विशुद्धपरिणामतः । मृत्वा मौर्यकुले जातः, सम्प्रति नाम संप्रति ॥८१॥ चन्द्रगुप्तप्रपौत्रोऽयमशोकनृपपौत्रकः । कुणालस्य सुतो जातः गुरुदीक्षा प्रभावतः ॥८२॥ ..
Shree Sudharmaswami Gyanbhandar-Umara, surat
www.umaragyambhandar.com