SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [ ६६५ ] तत्स्थाने मन्दिरं शुभ्र, कारितं तत्सुतेन च । महाकालं च तन्नामधृतं, जिनालयस्य च ॥६५॥ अवन्तिपार्श्वनाथस्य, मूर्त्तिरपि च कारिता । प्रतिष्ठिता शुभे योगे, सूरिणा शुद्धमन्त्रकैः ६६ ॥ दुर्भिक्षे च परिप्राप्ते, अटन् रङ्कः क्षुधातुरः । भिक्षार्थं परिभ्रान्यन् सन्सूरीणां निकटे गतः ||६७ गोचर्यार्थं गतः सूरिः, कस्यचिच्छ्रेष्ठिनो गृहे । विशुद्धमोदकीं भिक्षां, श्रेष्ठी ददाति भावतः ॥ ६८ भिक्षां च तादृशीं दृष्ट्वा रङ्को याचति मोदकान् । अतीव क्षुत्प्रयोगेन, मह्यं पीडा प्रजायते ॥ ६६ ॥ मह्यं ददातु भो किञ्चित्त्वत्पार्श्वे प्रचुराः खलु । विद्यन्ते मोदकाः सूरे ! ददाने नैव न्यूनता ॥७०॥ सूरिणा ज्ञानयोगेन, भाविकालो विलोकितः । अस्माच्छासन वृद्धिश्च, भाविकाले च निश्चिता ७१ स्वीयज्ञानेन विज्ञाय, पश्चादुक्तं मुनीश्वरैः । गृह्यते यदि दीक्षा चेन्ममाहारस्तु लभ्यते ॥७२॥ दीक्षा च दीयतां साधो मा विलम्बो विधीयताम् । दत्ता च तत्क्षणे दीक्षा, भोजनं कारितं महत् ॥७३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy