________________
mmmmmmmmmmmmmmmm.
[६७२]
योगभद्रपाहुविनेयाच्च, गोदासाभिधानकात् । गोदासगणसम्भूतः, ज्ञातव्यो जैनशासने ॥१२७ आर्यमहागिरेः शिष्याद् बलिस्सहस्य नामतः । बलिस्सहगणस्यैव, उत्पत्तिस्तत्र जायते ॥१२८॥ सुहस्तिसूरिशिष्येभ्यः, उद्देहचारणौ गणौ । मानववेसवाट्याख्यौ, गणौ च निर्गतौ तदा ॥१२६ सुहस्तिसूरिशिष्याश्च, मुख्या द्वादशसंख्यकाः । पश्चमः सुस्थितस्तेषु, षष्ठः सुप्रतिबुद्धकः ॥१३०॥ उदयगिरिमध्ये च, सूरिमन्त्रस्य कोटिशः। जापस्य जपनादेव, जातः कोटिकगच्छकः ॥१३१॥ कोटिकगच्छमध्ये च, वजी विद्याधरी तथा ॥ उच्चनागरिका चैव माध्यमिका चतुर्थि का ॥१३२॥ शाखाश्च परिज्ञातव्याः उपशाखाऽप्यनेकशः । इत्येवं परिमन्तव्यं, निर्ग्रन्थ नामधेयकम् ॥१३३॥ निन्थग्रन्थतायाश्च, नामान्तराणि सन्ति । न तु विभिन्नगच्छत्वं; ज्ञातव्यं बुद्धिशालिना ॥१३४ आर्यमुहस्तिनां पट्टे, सुस्थितप्रतिबुद्धको । संजातौ मुख्यशिष्यौ द्वौ पदृशोभाविवर्ष कौ ॥ .
Shree Sudharmaswami Gyanbhandar-Umára, Surat
W.umaragyanbhandar.com