________________
[६७८ ]
योग
पुत्रव्यामोहकार्याय, सुनन्दा मुखभक्षिकाम् । अनेकविधता युक्तां तत्र गत्वा च ढौकते ॥ १८९ ॥ धनगिरिमहाभागैः साधुचिह्न रजोहरम् । तत्समीपे च मुक्तवा वै, प्रोक्तं द्वाभ्यां च तत्क्षण ॥ तुभ्यं यद्रोचते तद्धि, गृह्यतां भाग्यसेवधे । मोहसाधन मिष्टान्नं त्यक्त्वा रजोहरं धृतम् ॥१८३ ततो मातापि वैराग्याद्दीक्षां गृह्णाति भावतः । यदाष्टवार्षिको जातः, तदा जृम्भक देवकः ॥ १८४॥ पूर्वभवीय मित्रोऽमी, परीक्षायै तदागतः । उज्जयिन्याश्च मार्गेषु, वृष्टिनिवृत्तिकालिके ॥१८५॥ कुष्माण्डशुद्धभिक्षां च दीयमानां न गृह्णीयात् ।
"
अनिमेषत्व चिह्नन, जानाति देवपिण्डकम् ॥१८६॥ मह्यं न कल्पते तद्धि, कथितं तेन तत्क्षणे । तुष्टदेवेन तत्काले, दत्ता वैक्रियलब्धिका ॥ १८७॥ द्वितीय समये भिक्षा, धृतपुराभिधानिका । दीयमानापि साऽशुद्धा, देवपिण्डस्वरूपिका ॥१८८॥ तद्योग्यां च मत्वावै तुष्ट जृम्भकदेवतः । सम्प्राप्ता च महाविद्या, आकाशगामिनी तदा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com