________________
mmmmmmmm
[६९२]
योगतस्य सेनापतिं चैव, प्रतिबोध्यैव तत्क्षणे । दत्त्वा भागवती दीक्षामात्मकल्याणकारितम् ३०४ सूरीणामुपदेशेन, आमराजेन भावतः । सिद्धाचलादि तीर्थानां, सङ्को निष्कासितो महान् ॥ इत्याद्यनेककार्याणि, कृतानि सूरिभिः खलु । जैनधर्मप्रभावश्च, संजातो गुरुयोगतः ॥३०६॥ मानतुंगाख्यसूरीणां, पट्टे च वीरसूरयः । यथार्थनामयुक्तास्ते, शासनवृद्धिकारकाः ॥३०७॥ सूरयो जयदेवाख्याः, तत्पट्टे शुभचिन्तकाः । स्वीय शत्तयनुसारेण, जैनधर्मप्रभावकाः ॥३०॥ देवानन्दाख्य सूरिश्च, तत्पपरिवर्धकः । शुद्धा क्रियानुरागेण, रक्तं च स्वीयमानसम् ॥३०॥ विक्रमसूरयो ज्ञेयाः, तत्पट्टपरिदीपकाः। जैनसिद्धान्तज्ञातारः, स्वपरोन्नतिकारकाः ॥३१० ततो नृसिंहसूरीणां, परिचयो विशेषतः। कार्यते धर्मयोगेन, स्वपरोन्नति हेतवे ॥३११॥ स्वपरशास्त्रज्ञातारः; महाविज्ञाश्च ते मताः । नरसिंहपुरे यक्षस्योपदेशप्रदाः खलु ॥३१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com