________________
rrrr
F६६४]
योगतत्पर्ट शोभयामासुः, जयानन्दाख्य सूरयः। सर्वत्रानन्ददातारः, जगत्कल्याणकारकाः ॥३२२॥ अलंचकु श्च तत्प, रविप्रभाख्य सूरयः । रविसमप्रकाशं च, कुर्वन्ति भारते खलु ॥३२३॥ प्रकाशयन्ति तत्प, यशोदेवाख्य सूरयः।। चन्द्रोज्वलयशोवादः, शासनं दीपयन्ति ते ॥३२४ प्रद्य म्नसूरिदेवानां, विषये लेशमात्रकम् ।। लिख्यते स्वात्मबोधाय, अन्येषां ज्ञानहेतवे ॥३२॥ मेदपाटनृपाणां च, अल्लाख्यानां च बोधकाः। धर्मवादविधाने च, अद्वितीयाः प्रकीर्तिताः ॥३२६ तैराचार्यमहाभागः, राजसभासु चान्यदा । नग्नाटवादिनां तत्र, पराजयश्च कारितः ॥३२७॥ श्वेताम्बरं दृढीकृत्य, युक्त्या च साधितं तदा। सर्ववादेषु नग्नाना, पराजयश्च जायते ॥३२८॥ त्रिभुवनगिर्यादीनां, नृपाणां प्रतियोधकाः। सर्वत्र जैनधर्मस्य, विजयं कारयन्ति ते ॥३२६॥ तन्नाम्ना चापरे जाताः, आचार्या जैनशासने । मेदपाटनृपाणां च, तन्मध्ये बोधकरच कः ॥३३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com