SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [६८६] यथैव मानतुंगाना, सूरीणां स्वीकृतिः कृता । तथैवात्रापि ज्ञातव्यं, सामन्तभद्रसूरिषु ॥२७८॥ तद् ग्रन्थेषु प्रमाणं च, नग्नाटसाधकं न हि । उत्कटत्यागभावेन, स्वीकृता वनवासता ॥२७६॥ द्वष्ट्वा दिगम्बरैस्तेषु, घोषितं च दिगम्बरम् । योगिनां समदृष्टित्वात्पक्षपातो न विद्यते ॥२८॥ पूर्वविदश्च ते ज्ञेयाः, घोरतपस्विनस्तथा । आगमस्यानुसारेण, क्रियायाः कारकाश्च ते ॥२८॥ देवकुलादिशून्येषु, स्थानेषु वनवासता। वनवासित्वयोगेन, वनगच्छोपि निर्गतः ॥२८२॥ वनवासित्वगच्छोऽपि, निर्ग्रन्थतश्चतुर्थकः । प्ररूपणासु भेदस्य, लेशमात्रं न विद्यते ॥२८॥ सामन्तभद्रपट्टेषु, वृद्धदेवाः समागताः । सततं धर्मवृद्धीणां, कारका दुःखवारकाः ॥२८४॥ तत्प परिज्ञातव्याः, प्रद्योतनाख्य सुरयः । शासनरागता तेषां हृदये परिराजते ॥२८॥ सूरयो मानदेवाख्याः, तत्पवृद्धिकारकाः । कर्त्तारो लघुशान्तीनां, सङ्घोपद्रवनाशकाः ॥२८६॥ ४४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034654
Book TitleVeer Dharm Pattavali
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy