________________
योगmmmmmmmm
[ ६७४ ] पूर्वधरमुनीन्द्रश्च, पूर्वस्य संग्रहः कृतः । यस्य पार्वे च यज्ज्ञानं, तत्सर्व संग्रही कृतम् १४५ आर्यसुहस्तिनः पट्टे, सुस्थितप्रतिबुद्धको । द्वयोर्गोत्राभिधाने च, व्याघ्रापत्यकनामके ॥१४६॥ कोटिशमन्त्रजापाच्च, कोटिकौ तौ प्रकीर्तितौ । काकन्दिकनगर्या च, काकन्दको समुद्भवात् ।।१४७ सुविहितक्रियानिष्ठी, सुज्ञाततत्त्वको तथा । महापुरुषरूपौ तौ, विज्ञेयौ जिनशासने ॥१४८॥ धर्मोन्नतिविधानाय, सततं चोद्यमौ तथा। धर्म प्राणसमं मत्वा, धर्मध्यानपरायणौ ॥१४॥ कोटिकगच्छके जाताः, इन्द्रदिन्नादि सूरयः । स्थविरप्रियग्रन्थश्च, विद्याधरादिकास्तथा ॥१५०॥ सुस्थितसूरिपट्टे च, कौशिकगोत्रभूषकः । दिन्नसूरिश्च तत्प, विज्ञेयो वीरशासने ॥१५१॥ आर्यसिंहगिरिश्चैव, तत्प? शान्तसेवधिः । संजातो दृढ़धर्मश्च, जगत्कल्याणकारकः ॥१५२॥ प्रसङ्गतोऽनुवक्तव्याः, प्रभावशालिसूरयः । आयश्च क्रालिकाचार्यः, गर्दभिल्लविनाशकः ॥१५३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com