________________
-प्रदीप
[७.७] झांझणाख्य कुमाराणां, सूरयः प्रतिषोधकाः । तदुपदेशेन मंत्री च, चतुरशीति मन्दिरम् ॥४३५॥ अनेकपुस्तकागारान्, करोति भक्तिभावतः । प्रतिभाशालिनस्ते च, जैनशासनवर्धकाः ॥४३६॥ सोमप्रभाख्य सूरिश्च, तत्प परिराजते।। सोमतिलकसूरिश्च, तत्पी च समागतः ॥४३७॥ तत्पद भूषयामासुः, देवसुन्दरसरयः। अनेकग्रन्थकर्तारः, अनेकराजबोधकाः ॥४३८॥ सोमसुन्दरसूरिश्च, जयतु पृथिवीतले । देवसुन्दरसूरीणां, पट्टे सोऽपि समागतः ॥४३६॥ मुनिसुन्दरनामानः, सूरयो वीरशासने। तत्पट्ट च समायाताः, धर्मवृद्धिकराश्चते ॥४४०॥ अध्यात्मकल्पद्रौमादिग्रन्थानां कारकाः खलु । सहस्रावधिकर्तारः, महाप्रतापशालिनः ॥४४१॥ मुजफराख्य म्लेच्छानां, गूर्जरे च निवासिनाम् । उपदेशं विधायैव, धर्मप्रभावदर्शितः ॥४४२॥
१-अवधान। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com