Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[७१४]
योगसरिभिस्तत्र गत्वैव, लाहोराभिधग्रामके। प्रबला देशनाद्वारा, प्रभावोऽपि प्रदर्शितः ॥४९६॥ भूषणाख्यैश्च नग्नाटः, चिन्तामणेश्च सम्मुखे । सूरते च कृतो वादः, तेषां निरुत्तरी कृता ॥४६७ योगशास्त्रस्य चाय कश्लोकस्य बुद्धियोगतः। पञ्चाधिकशतार्थाहि, कृताश्च सूरिभिः खलु ॥४६८ सुमित्ररासग्रन्थश्च, सूरिभिनिर्मितस्तदा । चतुर्लक्षप्रभूणां च, मूर्तीनां शुभयोगतः ॥४६६॥ प्रतिष्ठा च कृता तैर्हि, यात्राऽपि प्रचुरास्तथा । कालीसरस्वतीरूपं, पदं प्राप्तं च तैः खलु ॥५०॥ सम्राडकवरैस्तेषां, दत्तं विशुद्धप्रेमतः । जयन्तु सूरयस्तेऽत्र, भारते जैनशासने ॥५०१॥ कादम्बर्याख्य साहित्ये, स्फुटा टीका च निर्मिता। भानुसिद्धीन्दुविज्ञाभ्या, बुद्धिचातुर्ययोगतः ॥५०२॥ विजयहीरसूरीणां, विज्ञान्तेवासिनः समे । सर्वे च ग्रन्थकर्तारः, सर्वे सिद्धान्तपारगाः ॥५०३॥
१-भानुचन्द्रसिद्धिचन्द्राभ्यां ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84