Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
[ ७२० ]
"
राजनगरमध्ये च, आगत्यैव ततः परम् । मणिविजयपार्श्वे च शुद्धदीक्षा च याचिता ॥५४६ संवेगि साधवो जाता:, त्रयोऽपि गुरुसामीपे । वुटेरायस्य सन्नाम, बुद्धिविजयरूपकम् ||५५०|| मुक्तिविजयसन्नाम, मूलचन्द्रस्य स्थापितम् । वृद्धिविजयरूपं च वृद्धिचन्द्रस्य योजितम् ॥ ५५९ ॥ शिष्यौ तौ द्वौ च संजातौ बुद्धिविजययोगिनां । परं संवेगतां प्राप्य, हर्षितौ तौ महाशयौ ॥ ५५२ आत्मारामादि पूज्यैश्च पश्चात्पाञ्चालमध्यके । शुद्धधर्मप्रचारश्च विहितः पुष्कलस्तदा ॥ ५५३ ॥ अष्टादशमहाभागैः, साधुभिः सह तत्र वै । आत्मारामैश्च पाटानां त्रोटनं च कृतं महत् ५५४ गुर्जर देशमध्ये च, आगतास्ते महाशयाः । बुटेरायगुरूणां च, दीक्षां पार्श्वगृहीत्तदा ॥ ५५५ शुद्धसंवेगिनो जाताः, परमवैराग्यमूर्त्तयः । शुद्धधर्मप्रचाराय गुरूणां ते सहायकाः || ५५६ || नीतिविजयपूज्याश्च, क्षान्तिविजयसाधवः ।
बुद्धिविजय साधूनां शिष्याश्च ते समे मताः ॥ ५५७
Shree Sudharmaswami Gyanbhandar-Unhara, Surat www.umaragyanbhandar.com
-

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84