Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
[७१६] मूलचन्द्रेण तत्काले, दीक्षा च गुरुसंनिधौ। गृहीता भक्तिभावेन, ततो जाताः सहायकाः ॥ गुरुपार्वे च तत्पाठाः, दृष्टा यदा च तेन वै । मूलचन्द्रमहाराज, गुरूणां कथितं तदा ॥५४१॥ दाक्षिण्यं नैव कर्त्तव्यं, त्यज्यतां मुखवस्त्रिका सदा मुखेषु पाटाश्च, अश्वानामेव शोभते ॥५४२ प्रत्युताऽसंख्यजीवानां, हिंसा च जायते ध्रुवम् । .तस्याश्च त्रोटनं श्रेष्टं, इत्युत्तवा तैश्च वोटिता ॥ कृपाराममहाभागाः, शुद्धवैराग्यमूर्तयः । आत्मकल्याणकर्त्तव्ये, गुरून् गवेषयन्तिते ॥५४४॥ मातुलमूलचन्द्राणां, योगश्च मीलितस्तदा । तद् गुरुनिकटे तैश्चा, दीक्षा च स्वीकृता शुभा ॥ वृद्धिचन्द्रं च तन्नाम, योजितं गुरुणा तदा। ततः पाञ्चालदेशेषु, मूर्तिपूजोपदेशनम् ॥५४६॥ विशुद्धश्रावका नैके, संजाताश्चोपदेशतः। विहृत्य तैर्महाभागैः, शुद्धधर्मश्च दर्शितः ॥५४७॥ सिद्धाचलस्य यात्रायै ततश्च साधवस्त्रयः । यात्रां कृत्वा चतुर्मासं, कृतं भावपुरे वरे ॥५४॥
Shree Sudharmaswami Gyan nandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84