Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
•
- प्रदीप
विजय सिंह सूरिश्व, विजयदेवपट्टके । क्रमेणैव समायातः, वीरधर्मस्य शासने ॥ ५२२॥ तदानिं च क्रिया काण्डे, शैथिल्यं हि प्रवेशितम् । तन्निराशाय यत्नोऽपि, सत्यविजयसाधुभिः ॥५२३ क्रियोद्धारस्य कार्येषु, नैकसाधुसमागताः । आत्मकल्याणकर्त्तव्ये, केषामिच्छा न जायते ॥ ५२४ वैरागी महातपस्वी च, सत्यविजय साधुराट् । अपरसाधुसाहाय्यात्क्रियोद्धारश्च कारितः ॥ ५२५॥ ततः संवेगि नाम्ना च, आत्मार्थिनश्च साधवः । जैनशासनमध्ये च, विख्याता धर्मयोगतः ॥ ५२६॥ कर्पूरविजयश्चैव, तत्पट्ट परिराजते ।
[ ७१७ ]
क्षमाविजयसाधुश्च, ज्ञातव्यस्तदनन्तरम् ॥५२७॥ जिनविजय भव्यात्मा, ततोऽनुराजते खलु । तपोगच्छे च विख्यातः जयतु भुवि मण्डले ॥ ५२८ उत्तमविजयस्तस्मात्पद्मविजय पण्डिताः । रूपविजयसाधुश्च, कीर्त्तिविजयसाधुराट् ॥ ५.२६ ॥ कस्तूरविजया ज्ञेयाः, पूज्याश्च भाग्यशालिनः ।
मणि विजयशौभाग्यं वर्तते सर्व साधुषु ॥ ५३०||
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84