Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 74
________________ योग [७२४] उत्तमविजया ज्ञेयाः, उत्तमधर्मदेशकाः । साधुत्रयसमायुक्ताः, गुरुभक्तिपरायणाः ॥५८५॥ चतुरविजयाः पूज्याः, शान्तस्वभावताजुषः । वैराग्यरसतायुक्ताः, जैनसिद्धान्तज्ञायकाः ॥५८६॥ द्वादशसाधुसंयुक्ताः, तपोधर्मप्रदर्शकाः । आत्मकल्याणमार्गेषु, विचरन्ति च ते सदा ॥५८८॥ राजविजयपूज्याश्च, सदा वैराग्यदीपकाः । भावविजयसाधुश्च, तपस्विनां शिरोमणिः ॥५८८॥ हेमविजयसाधूनाममोघधर्मदेशना । वैराग्यधासनारूपा, दससंख्याकसाधवः ॥५८६॥ विजयनेमिसूरीणां, षष्टिसंख्याकसाधवः । अनेके पण्डितास्तेषु, अनेके ग्रन्थलेखकाः ॥५६०॥ प्रेमविजयसाधूनां, शिष्यत्रयी च वर्तते । अपूर्वप्रेमभावश्च, विद्यते च महात्मनाम् ॥५६१॥ शान्तमूर्त्तित्वरूपेण, करविजयस्य वै । ख्यातिश्च जैनधर्मेषु, अपूर्वत्यागभावतः ॥५६२॥ साधूनां सप्तसंख्याः स्याद्भाषाग्रन्थस्य लेखकाः। प्राचीनपुस्तकानां च ते स्वयमनुवादकाः ॥५६३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84