Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
योग
[ ७०२ ]
कुमारपाल भूपालबोधकागुरवश्च ते । अष्टादशसु देशेषु, अमारिपटघोषणम् ॥ ३६० ॥ कारितमुपदेशेन, सूरिणा भूपतेः खलु । जन्म सफलता राज्ञां, कारिता सूरिणा तदा ॥ ३६१ अपूर्वविज्ञता तेषामपूर्वबुद्धिकौशलम् । अपूर्वा तर्कशक्तिश्च, सर्वापूर्व च सूरिषु ॥३६२॥ व्याकरणं च लिङ्गानुशासने नैव संयुतम् । पादलक्षप्रमाणं च श्लोकानां तत्र वर्तते ॥ ३६३ ॥ काव्यानुशासनं चैव, छन्दोऽनुशासनं तथा । वादानुशासनं तैश्च, स्वोपज्ञं च विनिर्मितम् ३६४ न्याये प्रमाणमीमांसा, सटीका तैश्च निर्मिता । अनेक काव्यग्रन्थाश्च, रचिता सूरिभिः खलु ॥ ३६५॥ प्रौढिमयोगशास्त्रं च, सटीकं वर्तते खलु । वीतरागमहास्तोत्रं, जैनगीतास्वरूपकम् ॥ ३६६॥ सार्वत्रिकोटिश्लोकानां, निर्माणं जैनशासने । तैरेव कारितं बुध्या, सर्वाश्चर्य विधायकम् ॥ ३६७॥ नैकमन्दिरनिर्माणं, प्रतिष्ठा करणं तथा ।
अनेकतीर्थयात्रा च, संघद्वारा कृता खलु ॥ ३६८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84