Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 12
________________ [२] योगयोग्यजीवं परिज्ञाय, गुरुणा दीक्षितः किल । राजसभा समागत्य, धर्मलाभं प्रदत्तवान् ॥३८॥ शोचितो. राजप्रश्नश्च, लोचितमुत्तरं कृतम् । तं श्रुत्वा मानसे स्वीये, राज्ञा च परिचिन्तितम्॥३६ अहो ! चैतस्य दाढ्यं तदहो मानसनिश्चयः। अहो ! वैराग्यपुष्टित्वं, कामरागस्य मन्दिरे ॥४०॥ इत्येवं स्तुतिश्लाघां च, मुहुर्मुहुः करोत्यसौ । तत्काले राजहाच, निर्गतः शान्तसेवधिः ॥४१॥ कोशाया प्रतिबोधाय, चातुर्मासाय याचनाम् । करोति गुरुसाम्मुख्ये, स्थूलभद्रो महामुनिः ॥४२ योग्यस्य योग्यतां ज्ञात्वा, गुरुणा स्वीकृतिः कृता । गतः कोशागृहे साधुः, चित्रशालां च याचते ॥४३ पूर्वप्रेमवशेनैव, शाला समर्पिता तदा । षड्सभोज्यसामग्री, वर्षाकालो महांस्तथा ॥४४ मदनागारवासेन, मदनोऽपि विनाशितः। कोशाशृङ्गारसामग्री, दृष्ट्वापि नैव मोहितः ॥४५ वैराग्यमयवाक्येन, अध्यात्मदेशनादिना । प्रतिबोध्य च तां कोशामणव्रतं प्रदत्तवान् ॥४६॥ Shree Sudharmaswami Gyanbhandar-Umara, surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84