Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[६८८]
योगचंद्रसूरीशपट्टेषु, सामन्तभद्रसूरयः । महाप्रतापसंयुक्ताः जगद्य द्योतकारकाः ॥२६६॥ दिगम्बरत्वभेदोऽपि, पतितः कालदोषतः । सम्प्रदाय द्वयस्यापि, ते पूज्याः सूरयो मताः ॥२७० तन्निर्मिताश्च सद्ग्रन्थाः, मन्यन्ते चाप्तरूपतः। द्वाभ्यां च सम्प्रदायाभ्यां, संशयो नात्र विद्यते ॥ विवादो नैव केषाश्चित्तद् विषये प्रजायते । युक्त्यनुशासनं देवागमस्तोत्रं च सुन्दरम् ॥२७२॥ स्वयम्भूस्तोत्ररूपाश्च, ग्रन्थाः सर्वैश्च सम्मताः । सूरीणां वृद्धदेवानां, प्रतिबोधस्य हेतवे ॥२७३॥ देवागमीय स्तोत्रं तत्कृतं सामन्तसूरिभिः । दिगम्बराश्च ते सन्ति, इत्युक्तौ न प्रमाणता ॥ प्रमाणाभावतो नैव, तादृग् वाक्यं च मन्यते । प्रमाणविरहेणापि, यदि त्वया निगद्यते ॥२७।। तदा शशविषाणं च, मन्यतां च स्वच्छन्दतः । कल्याणमन्दिरस्यैव सिद्धसेनदिवाकराः ॥२७॥ श्वेताम्बराश्च कर्तारः, प्रसिद्ध युक्तियुक्ततः । तथाप्यज्ञानदोषेण, नग्नाटत्वं च घोषितम् ॥२७७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umarayyanbhandar.com

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84