Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 36
________________ योगmmmmmmmmmm [६८६] संस्कृतं प्राकृतं ज्ञान, प्रचुरं परिज्ञायताम् । तत्सदृशोहि विज्ञश्च, तत्काले भारते नहि ॥२५२॥ जैनदर्शनशास्त्राणि, शुद्धन्याययुतानि च । निर्मापितानि जैनेषु, विद्यन्ते खलु भारते ॥२५३॥ आद्य निर्मापणं न्यायशास्त्राणां सूरिणा कृतम् । तत्पश्चान्यायशास्त्रस्य, ग्रन्थान काश्च निर्मिताः ॥ सर्वागमीय ग्रन्थानामनुवादश्च संस्कृते । कर्तव्ये स्वीय जिज्ञासा, दर्शिता संघसम्मुखे ॥२५५ नमस्कारमहामंत्रानुवादश्च कृतस्तदा । तच्छुत्वा संघमुख्येन, प्रायश्चित्तं प्रदर्शितम् ॥२५६ तत्प्रायश्चित्तरूपेण, विक्रमप्रतिबोधनम् । कृतं च गुरुदेवेन, बहुयुक्तिप्रयोगतः ॥२५७॥ विक्रमीय चरित्राच, विज्ञेयं ज्ञानशालिना । अत्र तु नाममात्रेण, दर्शितमधुना मया ॥२५८॥ सिद्धाचलस्य यात्रायै, महासंघश्च योजितः । निष्कासितो महानेव, विक्रमेणैव तत्क्षणे ॥२५६॥ ओङ्कारनगरे जैनमन्दिरं नूतनं कृतम् । अश्वाववोधतीर्थस्य, उद्धारोऽपि कृतः खलु ॥२६०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84