Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 20
________________ [६७०] योगसाधुविहारयोग्यानि, क्षेत्राणि कारितानि च । वस्त्रपात्रान्नपानादि शुद्ध देयं च साधुभ्यः ॥१०६ इत्येवं घोषितं तेन, ज्ञापितं देशनादिना । प्रतिपुरं प्रतिग्राम, कृत्रिमसाधुद्वारतः ॥११०॥ यस्य गृहेषु यद्वस्तु, विद्यते शुद्धमानकम् । तद्वस्तु साधुसामीप्ये, ढौकनं शुद्धभावतः ॥१११॥ यदि साधुश्च गृह्णाति, तदा देयं च तत्तथा । मूल्यं तस्य महाराजा, तस्मै दास्यति कोशतः ११२ एवंरीत्या च म्लेच्छेषु, विहारः सुलभः कृतः। साधुभिस्तत्र गत्वैव, प्रचारो बहुधा कृतः ॥११३॥ आर्यदेशेषु साधनां, प्रचारे स्वल्पकष्टता । अन्यत्र कष्टबाहुल्य, तदपि सुलभीकृतम् ॥११४॥ अनेककोटिसंख्याकाः, जैनधर्मानुयायिनः । जैनाश्च कारितास्तेन, श्रद्धारत्नसमर्पणात् ॥११५॥ धन्याश्च गुरवस्ते वै, धन्याः सम्प्रतिभूमिपाः । शासनरागता तादृग, येषां स्वान्ते विराजते ११६ तादृशगुरुशिष्याणां, समायोगस्तु दुर्लभः । सुहस्तिना कृतं यादृक् तादृशं च करोति कः ॥११७. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84