Book Title: Veer Dharm Pattavali
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 23
________________ -प्रदीप [६७३] आर्यमहागिरेः काले, आर्यसुहस्तिनस्तथा । द्वादशवार्षिकः कालः, अपतच्च भयङ्करः ॥१३६॥ तत्काले नैक संख्याकः, साधुभिर्भोज्य त्यागतः । अनशनं च सम्प्राप्य, स्वर्गे गताश्च तत्क्षणे ॥१३७ दुष्कालस्य प्रभावेन, आगमज्ञानहासता । कलिंगाधिपराज्ञा च, खारवेलेन तत्क्षणे ॥१३८॥ जैनस्थविरसाधूनां, कुमारीपर्वते खलु । एकत्रीकरणायैव, आह्वानं च कृतं तदा ॥१३॥ आर्यबलिस्सहश्चैव, बोधिलिङ्गनक्षत्रको । देवाचार्यश्च धर्मश्च, प्रभृत्यनेक साधवः ॥१४०॥ सुस्थितप्रतिबुद्धौ च, उमास्वातिस्तथा परः। श्यामाचार्याश्च तत्रैव, आगता स्थविरास्तथा ॥१४१ आर्यपोइणिकाः साध्व्यः, समितौ चागताः खलु । कलिङ्गभिक्षुगजश्च, पुष्यमित्रादिकाः किल ॥१४२॥ चतुर्विधकसंघस्य, आगतिस्तत्र जायते । कलिङ्गराजविज्ञप्त्या, साधुसाव्य अनेकशः ॥१४३ मगधमथुराषङ्ग, देशे धर्मप्रचारतः। आगमज्ञ मुनीन्द्रेश्च, आगमसंग्रहः कृतः ॥१४४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84