Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ARRCAS पाणिनामुपकाराय यदेवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥ ९ ॥ पद्मपुराणे-दधीचिना पुरा गीतं श्लोकार्द्ध श्रूयते भुवि । सर्वधर्ममयः सारः सर्वधर्मेषु संयमः ॥१०॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि ॥ ११ ॥ इतिहासे-न पापं प्रति पापः स्यात् साधुरेव सदा भवेत् । आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ १२ ॥ सुलभाः पुरुषा लोके साधवः साधुकारिषु । असाधुषु पुनः साधुदुर्लभः पुरुषो भुवि ॥ १३ ॥ ते साधवः सुजन्मानस्तैरियं भूषिता मही। अपकारिषु भूतेषु ये भवन्त्युपकारिणः ॥ १४ ॥ दग्धं सोत्रानुदहति हतमेवानुहन्ति च । मृतं मारयते चैव यः पापे पापमाचरेत् ॥ १५ ॥ महामोहहतं पूर्व यो जन्तुं हन्ति निर्णयः । स प्रेत्य नरकं याति नृशंसो मृतमारकः ॥ १६ ॥ अथ धर्म धर्मः श्रुतोपि दृष्टोपि कृतो वा कारितोपि वा । अनुमोदितोपि राजेन्द्र ! पुनात्यासप्तमं कुलम् ॥ १७ ॥ मनुस्मृतौ-नामुत्र सहायार्थ पिता माता च तिष्ठतः । न पुत्रदारं तजातिधर्मस्तिष्ठति केवलम् ॥ १८ ॥ तस्माद्धर्म सहायार्थ नित्यं संचिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १९॥ इतिहासे-धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ २० ॥ जीवतः शिलवृत्त्यापि धर्मो यस्य न सीदति । आद्य एव स मन्तव्यो धर्मवित्ता हि साधवः ॥ २१ ॥ भागवतपुराणे तन्महिमा-श्लोकं वा श्लोकपादं वा शृणुयाद्भक्तिभावतः । सर्वपापविनिर्मुक्तो वैष्णवीगतिमाप्नुयात् ॥ २२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 76