Book Title: Vedankush Author(s): Hemchandracharya, Veerchand Prabhudas Pandit Publisher: Hemchandracharya Sabha View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीहेमचन्द्रसूरिविरचितवेदाशः॥ विशेषं विना महाभारतादौ । इतिहाससमुच्चयेश्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥ श्लोकादन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ २॥ पद्मपुराणे-कर्मणा मनसा वाचा सर्वाऽवस्थासु सर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमक्षयम् ॥ ३ ॥ स्कन्दपुराणे-परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां संपदः स्युः पदे पदे ॥ ४ ॥ परोपकृत्या यो धर्मो धर्मो दानाद्धि संभवः । एकत्र तुलितो धात्रा तत्र पूर्वोऽभवद् गुरुः ॥५॥ परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि । नोपकारात्परो धर्मो नाऽपकारादघं परम् ॥ ६॥ तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् । तपोभिरुस्तन्नाप्यमुपकृत्या यदाप्यते ॥ ७॥ विष्णुपुराणे-पुराणं वैष्णवं चैतत्सर्वकिल्विषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपसाधकम् ॥८॥ SS-ACHARIPOCRICIRII For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 76