Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 121
________________ नित्यत्वक्षतिरिति चेन्न, फलवत्त्वेऽपि नित्यत्वाविरोधात्, “यदकरणे प्रत्यवायस्तस्यैव नित्यत्वात् " इति दिक् ॥१०८॥ यत एवमुक्तप्रघट्टेनाविचारितानुष्ठाने दोषबाहुल्यमुपलभ्यते ततो गुणावहमर्थमुपदिशतितम्हा गुरुलहुभावं गाउं णिव्वेअओ पवट्टिजा सज्झायाइसु सम्मं तत्तो तिव्वा हवइ सद्धा॥१०९॥ तस्मात् , अन्यथा दोषदर्शनात्, गुरुलघुभावं गुणदोषविषयम् , ज्ञात्वा शास्त्रनीत्या विमृश्य निर्वेदतस्तात्विकसंसारनैर्गुण्यावधारणात्, स्वाध्यायादिषु सूत्रपौरुषीकरणादिसाधुसमाचारेषु सम्यक् क्षणमप्यप्रमादेन प्रवर्तेत स्वाध्यायादेः प्रधानयोगत्वात् , यतस्ततः स्वाध्यायादौ सम्यक्प्रवृत्तेरतिगाढप्रतिबन्धाप्रधानबोधोपपत्तेः तीव्रा अतिशयवती श्रद्धा भवति ॥१०९॥ णाए अण्णायाओ अणंतगुणिआ पवट्टए एसा । तीए किरिआतिसओ ततो विसिट्ठो खओवसमो॥११०॥ यतः ज्ञाते वस्तुनि अज्ञाताद्वस्तुनः सकाशात् अनन्तगुणिता श्रद्धा प्रवर्द्धते । दृश्यते खेकस्मिन्नेव रत्नेऽपरिनिश्चितदारियोपशमादिमाहात्म्यानां शिक्षातो गुरूपदेशाद्वा तनिश्चयवतां चानन्तगुणः श्रद्धाविशेषस्तद्वदिहापि भावनीयम् । तया तीव्रश्रद्धया, क्रियातिशयो भवति । विज्ञातगुणरत्नश्रद्धयातत्पालनपूजनस्तवनादिभावप्राबल्याचत्परिपालनाधत्यन्तादरवत् साधूनामपि हातगुणक्रियाश्रद्धयातल्पालनादिविषयात्यन्तादरोपपत्तेः, ततो विशिष्टः सानुबन्धः क्षयोपशमो ज्ञानावरणादिकर्मक्षयोपशमो भवति, सम्यचिकित्साप्रयोगादिव तथाविधरोगनिग्रह इति ॥११०॥ .

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194