Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 180
________________ १७० " सम्माणुठ्ठाणं चिय ता सव्वमिति तत्तओ णेयं । णय अपुणबंधगाई मोतुं एवं इहं होइ ८८ " ॥ अन्यत्राप्युक्तम्“एवंभूतस्य या प्रवृत्तिः सा सर्वैव साध्वीति ।" तदेवं सिद्धमेतदपि धर्मानुष्ठानम् । अत्रासाधारणं नियामकमाह-अत्र पुनः पर उत्कृष्टः, हेतुस्तथाभव्यत्वं तत्परिपाकार्थमेवेतरकारणकलापोपयोगात् ॥ १८७॥ तथाभव्यत्वस्वरूपपरिज्ञानार्थमेवोपदेशपदगतां गायामाह - तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह पेयं । फलभेया तह कोलाइआणमक्खेवगसहावं ॥ १८८ ॥ तथाभव्यत्वं चित्रं नानारूपं भव्यत्वमेवेति गम्यते, अकर्मजमकर्मनिर्मितम्, आत्मतत्त्वं साकारानाकारोपयोगवज्जीवस्वभावाभूतम्, इह विचारे, ज्ञेयमत्र हेतु:, फलभेदात्तीर्थकरगणधरादिरूपतया भव्यत्वफलस्य वैचित्र्योपलंभात् । तथेति समुच्चये, कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणाम्, आक्षेपकस्वभावं संनिहितताकारकस्वभावम् । यदि च भव्यत्वमेकस्वभावं स्यात् तदा तीर्थकर सिद्धादिभेदः सिद्धान्तोक्तो विघटेत । नहि ऋजुसूत्रादयः पर्यायनयाः कारणभेदं विना कार्यभेदमन्यन्तेऽन्यथैकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसङ्गेन कारणान्तरकल्पना वैयर्थ्यप्रसंगात् । अथ सामग्र्याः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यत्वात्तीर्थकरसिद्धत्वाद्यवच्छिन्नस्यानापत्तिरेव, न हि तीर्थकरसिद्धत्वादिकं कार्यतावच्छेदकं, अर्थसमाज सिद्धत्वात्, अन्यथा नीलघटत्वादिकमपि तथा स्यात्, तीर्थकरातीर्थकर सि८८ साम्यानुष्ठानं चैव तस्मात्सर्वमिदमिति तत्त्वतो ज्ञेयम् । न चापुनर्बन्धकादि मुक्त्वा एतदिति भवति ॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194