Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 188
________________ va सनानाशादिद्वाराऽध्यात्मप्राप्तिस्तदभावे च तदभाव इत्यविकलं तस्य तद्धेतुत्वम् ।।१९३।। कल्याणमित्रयोगादिकमेव कर्त्तव्यत्वेनोपदिशन्नाह - संबंधो कायव्वो सद्धि कल्ला हे उमित्ते हि । जोअव्ळं जिणवयणं धरियव्वा धारणा सम्मं ॥ १९४ ॥ कल्याणहेतुमित्रैः श्रेयोहेतुस्निग्धलोकैः सह सम्बन्धः कर्त्तव्योऽकल्याणमित्रयोगस्यानर्थहेतुत्वात्, कल्याणमित्रायोगे च जाधानाद्ययोगा नियमो ऽयम् । तथा जिनवचनं वीतरागभाषितमंगप्रकीर्णकादिभेदभिन्नम्, श्रोतव्यमाकर्णनीयं नियोगेन प्रतिदिनमेतदाकर्णनेनैव संवेगादिस्यैर्यसिद्धि:, तथा घर्त्तव्या धारणा श्रुतार्थीविस्मरणानुकूलव्यापाररूपा, सम्यक् शास्त्राविरोधेन ॥ १९४॥ कज्जो परोवयारो परिहरिअव्वा परेसि पीडा य । हेया विसयपवित्ती भावेयं भवसरूवं ॥ १९५ ॥ तथा कार्यों विधेयः परेषां स्वव्यतिरिक्तानामुपकार आयविहितानुकूलो व्यापारस्तस्य स्वोपकारानुबन्धप्रधानत्वात्, तथा परिहर्त्तव्या परेषां पीडा, परपीडापरिहारपरिणामस्यैव स्वपीडा - परिहारफलकत्वात्, तथा हेया त्याज्या, संकल्पमूलवैमुख्येन विषयप्रवृत्तिः कामभोगासक्तिः, संकल्पनिरास एव कामनिरासाद, तदुक्तम् "काम जानामि ते मूलं संकल्पात् किल जायसे । अतस्तं न करिष्यामि ततो मे किं करिष्यसि ॥१॥" तथा भावयितव्यं विचारणीयं भवस्वरूपम् । तथाहि“यथेह लवणांभोभिः पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसंख्येयैर्भवस्तथा ॥ १ ॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194