Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 189
________________ १७९ किञ्च स्वप्राप्तधनवन्न तथ्यमिह किश्चन ॥ असारं राज्यवाज्यादि तुषखंडनवत्तथा ॥२॥ तडिदाडंबराकारं सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं बालधूलीगृहादिवत् ॥ ३॥ यथ कश्चन कस्यापि जायते सुखविभ्रमः । मधुदिग्धासिधाराग्रग्रासवचैव सुन्दरः ॥ ४॥ इत्यादि ॥ १९५॥ पुज्जा पूएअव्वा न निंदियव्वा य केह जियलोए । लोगोणुवतिअव्वो गुणरोगो होइ कायव्व ॥ १९६॥ तथा पूज्या लोकलोकोचरभावानुगता महान्तः पूजनीयाः, तथा न निन्दितव्याः केचिज्जघन्यमध्यमोत्कृष्टभेदभाजो जन्तवो जीवलोके, तथा लोकोऽनुवर्त्तितव्यः स्वप्रवृत्त्यनुकूलतया सेवनीयः, तथा च पठ्यते “लोकः खल्वाधारः सर्वेषां धर्मचारिणां सम्यक् । तस्माद्धर्मविरुद्धं लोकविरुद्धं च संत्याज्यम् ॥ १॥" तथा गुणराग औदार्यदाक्षिण्यादिगुणबहुमानो भवति कर्त्तव्यः, कुतोऽपि वैगुण्यात् स्वयं गुणानुष्ठानासामर्थ्येऽपि हि निबिड - गुणानुरागवशात्तदनुष्ठानफलवन्तो भवन्ति जन्तव इति ॥ १९६॥ अगुणे मज्झत्थतं कायव्वं तह कुसीलसंसग्गी ॥ वज्जेअव्वा जत्ता परिहरिअव्वो पमादो अ ॥ १९७॥ अगुणे निर्गुणे पुरुषे, मध्यस्थत्वमौदासीन्यम्, कर्त्तव्यं तत्प्रशंसानिन्दयोरुभयतः पाशारज्जुस्थानीयत्वात्, तथा कुशीलसंसर्गिरसदाचारजनालापसंवासादिलक्षणा वर्जयितव्या, यत्नादादरात्, तस्या दोषसक्रान्तिनिमित्तत्वात् तथा च पठ्यते Give

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194