Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१८१
ननु यद्येवं विकारनिमित्तत्वात्सर्वमेव हेयं परद्रव्यं किं तदोपादेयमिति ध्यायेदित्याह -
आयसरूवं णिच्च अकलंकं नोणदंसणसमिद्धं । णियमेणोवादेयं जं सुद्धं सासयं ठाणं ॥ २००॥
आत्मस्वरूपं नित्यमनादिनिधनम्, अकलंकं निश्चयतोऽविकृतरूपं चारित्रमर्यादामुपगतम्, तथा ज्ञानदर्शनाभ्यां समृद्धमुपचितम्, नियमेन नियोगेनोपादेयम्, यत् शुद्धं कर्ममलक्षयपवित्रं सत् शाश्वतं स्थानं परमपदलक्षणम् ॥ २०० ॥ सर्वस्वोपदेशमाह -
कि बहुणा इह जह जह रागद्दोसा लहुँ विलिज्जति । तह तह पट्टिअव्वं एसा आणा जिनिंदाणं ॥ २०१ ॥ किं बहुणा, इह जह इत्यादि अन्यत्र सुविवृतेयं गाथा || तवगणरोहणसुरगिरिसिरिणयविजया भिहाणविबुहाणं । सीसेण पियं रइअं पगरणमिणमायसरणङ्कं ॥ २०२ ॥ अणुसरिय जुत्तिगर्भ पुव्वायरियाण वयणसंदर्भ | जं काउमिणं लद्धं पुष्णं तत्तो हवउ सिद्धी ॥२०३॥ सुगममिति ॥ यस्यासन्गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः । भ्राजन्ते सनया नयादिविजयप्राज्ञाश्व विद्याप्रदाः ॥ प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदर - स्तेन न्यायविशारदेन विवृतो ग्रन्थः स्वयं निर्मितः ॥ १ ॥ ॥ उपदेशरहस्यनामा ग्रन्थः समाप्तः ॥
॥ अथ काव्यम् ॥

Page Navigation
1 ... 189 190 191 192 193 194