Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 178
________________ ૧૮ एयं चिय इह तत्तं णवरं कालीवि एत्थ पडिवक्खो । तहवि य परमत्थविऊ खलंति णो णयपइन्नाओं ॥ १८५ ॥ एतदेवाप्रमादपुरस्करणमेव, इह धर्मे, तत्वमुपनिषद्भूतम्, नेवर केवलम्, कालोऽपि दुःषमालक्षणः, कि पुनवारित्रमोहत योपशममन्दतेत्यप्यर्थः, अत्राप्रमादपुरस्करणे, प्रतिबन्धकः सिद्धिलक्षणफलं प्रत्येकादिभवव्यवधानकारित्वेन तथाविधाऽग्रमादविघटकत्वात्तस्य, न चैवमेतदालंबनेनैव संयमादरत्यागो विधेय इत्याहतथापि, परमार्थविदो यथावदायव्ययस्वरूपज्ञाः, निजप्रतिज्ञातेम न स्खलन्ति किन्तु कालबलमपि निजवीर्यौल्लासेन निहत्य यथाशक्ति स्वप्रतिज्ञामुसारेण प्रवर्त्तन्त एव धर्मकर्मणीति भावः ॥ १८५ ॥ इत्थं च भावानुज्ञानुसृत पुरस्कृताप्रमादमेव धर्मानुष्ठानमिति व्यवस्थितं अत्रैव मतान्तरमुपन्यस्यन्नाह— jo धम्मभासं सययविसयभावजगओ विति । णिच्छयओ तमजुत जुज्जह ववहोरओ णवरं ॥ १८६॥ अन्ये आचार्याः, धर्माभ्यासं सततविषयभावयोगतो ब्रुवते सतताभ्यासविषयाभ्यासभावाभ्यास मेदात्त्रिविधं धर्मानुष्ठानमित्यर्थः । तत्र नित्यमेवोपादेयतया लोकोत्तर गुणावासियोग्यतापादकमातापितृविनयादिवृत्तिः सतताभ्यासः, मोक्षमार्गस्वामिन्यईदादौ पूजादिकरणाभ्यासो विषयाभ्यासः, सम्यग्दर्शनादीनां भावानां भवोद्वेगपूर्वमभ्यास भावाभ्यासः । फलसनिधानभेदात् यथोत्तरं प्राधान्यं चात्र द्रष्टव्यम् । तदाह "अण्णे भणति तिविहं सययविसंयभावजोगओ वरं ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194