Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
भवेत् यत्र इति शङ्कनीयम्, यद् यस्मादधिकारिणो मोक्षाभिलाषिणः, जन्मभीतस्य संसारभयवतः, नैष धर्मः दुष्करः फले उत्कटेच्छासत्त्वे तदुपायज्ञानवतस्तदुपायप्रवृत्तौ विलम्बस्यायोगात् , तस्योत्कटेच्छाऽभावभावप्रयोज्यत्वाद्भवति च भववैराग्यामोक्षेच्छाया उत्कटत्वमतस्तद्वतो न मोक्षोपायानुष्ठानस्य दुष्करत्वमिति । तदिदमुक्तम्
"भवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः ।
अपवर्गानुरागाच स्यादेतनान्यथा क्वचित् ॥” इति ॥१८१॥ इत्यमधिकारिणो धर्मस्य न दुष्करत्वमिदमुक्तं, अनधिकारिणस्तु दुष्कर एवायमित्याहअपरिणए धम्ममी नाभव्यो संसयाइणा कुणइ । बद्धनिकाइअकम्मा तहा न एयं कुणइ जीवो ॥१८२॥ ___अपरिणते सम्यग्ज्ञानाभावेन मोक्षोपायतयाऽनिष्टे, धर्म, अभव्यो यथा संशयादिना न करोत्येनं धर्म आदिना विपर्ययानध्यवसायग्रहः, तथा बद्धमनन्तरं निकाचितं च सकलकरणायोग्यत्वेन व्यवस्थापितं कर्म चारित्रमोहाख्यं येनैतादृशः, जीवः सत्यकिविद्याधरादिवत् परिणतजिनप्रवचनोऽपि नैतं धर्म करोति, धर्मानुष्ठानहेतुभूताया उत्कटफलेच्छाया मिथ्यात्वमोहेनेव चारित्रमोहेनापि विघटनाविशेषात् ॥१८॥
यद्येवं बद्धनिकाचितकर्माणं प्रति धर्मानुष्ठानमजनयत उपदेशस्य नैःफल्यम्, तदा जिनोपदेशस्य सर्वसाधारण्यानुपपत्तिरित्याशङ्कायामाहएवं जिणोवएसो विचित्तरूवोऽपमायसारो वि । उचितावेक्खाइ चिय जुज्जइ लोगाण सव्वेसि ॥१८३॥
एवं बद्धनिकाचितकर्मणा धर्माननुष्ठाने, अप्रमादसारोऽपि

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194