Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
अंगांगिभावेन सामान्य विशेषोभयविषयतयैवोपयोगस्य पर्यवसानाद्र, अन्यत्राप्यवग्रहेहादिभावेन तथा पर्यवसानदर्शनादिति दिक् ॥ १७७॥
तदेवं पदार्थादिभेदेन चतुर्द्धा सूत्रव्याख्या व्यवस्थिता एतज्जन्यं तत्त्वज्ञानमेव च मुर्वायत्तः शुद्धाज्ञायोगलाभः परम इष्टप्राप्तिहेतुरित्याह
एवं सम्मन्त्राणं आणाजोगो उ होइ परिसुद्धो । जं नाणी निच्छयओ इच्छियमत्थं पसाहेइ ॥ १७८ ॥
एवमुक्तक्रमेण, सम्यक् परिपूर्ण ज्ञानं भवति, एतदेवाज्ञायोगस्तु परिशुद्धो भवति यद् यस्मात् ज्ञानी ईप्सितमर्थ प्रसाधयति, प्रतिबन्धशतोपनिपातेऽपि तचद्द्रव्यक्षेत्राद्यनुकूलप्रवृत्त्या कार्यान्तराविरोधेन साध्यसिद्धेरप्रत्यूहात् भावानुवृत्या बहूनां मार्गप्रदानवीजाधानकरणादिना तदनुबन्धप्रवृतेश्व ॥ १७८॥
यत एवं ज्ञानी स्वपरयोरिष्टसाधकोऽतः स एव प्रमाणीकर्त्तव्यः परलोकार्थिनेत्याहएसो चेव पमाणीकायव्वो णेवमप्पग हियत्ता । धम्मस्सत्थिलहुत्तं जं थोवो स्यणवावारो ॥ १७९ ॥
एष एव ज्ञान्येव प्रमाणीकर्त्तव्यो निश्शरकमेतद्वचनानुसारेणैव प्रवृत्तिर्विधेयेति भावः । अत्रार्थे दोषमाशक्य निराकुरुवे - एवं ज्ञानिन एव प्रमाणीकर्त्तव्यत्वे, ज्ञानिनामल्पत्वाद्धर्मस्याल्पगृहीतत्वाल्लघुत्वमनादेयत्वं न शङ्कनीयम्, यद् यस्माल्लोके - ऽपि रत्नव्यापारः स्तोक एव दृश्यते, न चायमनादेयः, तस्माद् व्यापारस्यादेयतायां विवेकपूर्वत्वमेव प्रयोजकं न तु बहुपरिगृहीतत्वमिति भावः । न चेदेवं बहुजनपरिगृहीतो लोकधर्मो न त्याज्यः स्यात्, तदुक्तम्

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194