Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१६२
प्रयोज्यत्वमुपाधिभूतमेव विषयः, बाधकं विना स्वभावभूतस्यैव शाब्दत्वस्य तत्र विषयत्वात् इत्यमुना प्रकारेण, निजसदृशं पदार्थादिभेदेन पूर्ण श्रुतज्ञानं कर्तुमुपदेश उक्तक्रमानुविद्धसूत्र देशनात्मा भवति । यथास्वज्ञानमेव योग्ये श्रोतरि हितार्थिनामुपदेशप्रवृत्तेरिति द्रष्टव्यम् ॥ १७४॥
नन्वेवं पूर्णस्वज्ञानानुसारिण उपदेशाच्छ्रुतज्ञानमेव पूर्ण श्रोतुः स्यात्, न तु चिन्ताभावनात्मकं स्वविचारार्जितविशिष्टतरसंस्कारजन्यत्वाच्चिन्ताभावनयोरित्याशङ्क्य समाधत्तेएवंपि सुअं अहिअं कह चिंताभावणप्पगं होउ । भष्णइ तारिसणियमइवित्थारे जुज्जइ तहतं ॥ १७५ ॥
9
'
एवमपि पूर्णोपदेशेऽपि श्रुतमधिकं यथाश्रुतार्थश्रोत्रपेक्षया स्यात्, चिन्ताभावनात्मकं तत्कथं भवतु, भण्यते तादृशनिजमति - विस्तारे श्रुतानुसृतस्वमतिप्रपञ्चे, युज्यते तथात्वं चिन्ताभावनात्मकत्वं श्रुतपर्यायक्रमेण यथोत्तरं क्षयोपशमवृद्धेस्तनियामक - त्वात् ॥१७५॥
ननु ज्ञानस्य क्षणिकत्वात् कथं बहुवेल: पदार्थाद्युपयोग इति नैयायिकाद्याशङ्कां निराकुर्वन्नाह - दीहो उवओगद्धा तहा खओवसमओ अ एगत्तं । तेण न संकरदोसो एवं नाणंतरे होइ ॥ १७६ ॥
1
दीर्घो यथोचितबहुसमयावच्छिन्नः, उपयोगाद्धा श्रुतोपयोगकालस्तथा श्रुतोपदेशात्तथानुभवाबाधाच्च । ननु पदार्थवाक्यार्थादिविचारणानामेकोपयोगत्वे धूमप्रत्यक्षवहन्यनुमित्यादीनामप्येकोपयोगत्वापत्तिरित्यत आह-तथाक्षयोपशमतश्चैकोपयोगहेतुक्षयोप

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194