Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 170
________________ यांनुल्लंघन, अतिदेशमाह-एवमुपदर्शितप्रकारेण, प्रतिसूत्रं यावन्ति सूत्राण्यंगीकृत्य, प्रायशो व्याख्यानं युक्तं अतिसंक्षिप्तरुचिश्रोत्राघपेक्षया प्रायश इत्युक्तम् ॥१७१॥ कुत एतदित्यत आहएवं सम्मन्नाणं दिटेडविरोहनाणविरहेण । अण्णयरगमा कासइ सुअमिहरी कासई अनाणं ॥१७॥ : एवं प्रतिसूत्रमुक्तक्रमेण व्याख्याने, सम्यग्ज्ञानं व्युत्पन्नस्य निराकांक्षप्रतीतिरूपं स्यात् । इत्थमेव खेल्वेतत् श्रुतचिन्ताभावनात्मकत्वेन परिपूर्णतामास्कन्दति । तल्लक्षणं चैदम् "वाक्यार्थमांत्रविषय कोष्ठकगतबीजसभिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥१॥ यत्तु महावाक्यार्थजमतिसूक्ष्म युक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुसिपि चिन्तामयं तत् स्यात् ॥२॥ ऐदम्पर्यगतं यद्विध्यादी यत्र तत्तयैवीचः। एतच्च भावनामयमशुद्धसद्दीप्तिसमम् ॥३३॥” इति । इतरथा एवं व्याख्यानामावें, अन्यतरंगमादेकतरमर्थमार्ग मनन्तगमश्रुतमध्यपतितमाश्रित्य कस्यचिद्विपरीताभिनिवेशरहितस्य श्रोतुः दृष्टेष्टविरोधज्ञानविरहेण शास्नेतरमानशास्त्रान्यतरविरुद्धत्वज्ञानाभावेन श्रुतं अप्रामाण्यज्ञानानांस्कन्दितश्रुतज्ञानमात्रं भवति, न तुं चिन्ताभावनाभ्यां परिपूर्णम् । कस्यचितु विपरीताभिनिवेशवता श्रोतुः अज्ञानं, विरुद्धंत्वेनाप्रामाण्यज्ञानास्कन्दितत्वात्तत्त्वतोऽज्ञानमेव तत् स्यात् ॥१७२।। ननु वाक्यार्थादिभेदेन श्रुतज्ञानस्यः कथं पूर्णता कापार्यादिज्ञानस्य मतिरूपत्वादित्याशक्य समाधते AAN:

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194