Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 168
________________ १५८ मनीतिरेव इष्टाऽभिमता, तस्या एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् ॥ १६७॥ वाक्यान्तरमप्यधिकृत्याहदाणपसंसणिसेहे पाणवहो तह य वित्तपडिसेहो । एत्थ पयत्थो एसो जं एए दो महापावा || १६८ || दानप्रशंसायां प्राणवधस्तभिषेधे च वृत्तिप्रतिषेधः एतेनेदं सूत्रकृतांगसूत्रं लक्ष्यते— “जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे अ णं पडिसेति विचिच्छेयं कुणति ते ७७ ||” इति । अत्र एषः पदार्थ, यदेतौ द्वौ दानप्रशंसानिषेधौ, महापापावशुभगतिलाभान्तरायादिप्रबलपापप्रकृतिबन्धहेतुत्वादिति ॥१६८॥ वक्कत्थो पुण एवं विच्छेओ होज देसणाईणं । एयं विसेसविसयं जुज्जइ भणिअं तु वोतुं जे ॥ १६९ ॥ वाक्यार्थः पुनरेवभ्युपगम्यमाने, देशनादीनां पात्रापात्रादिविषयदानविधिनिषेधादिदेशनादीनां विच्छेदः स्यात् — “धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥१॥ बीजं यथोपरे क्षिप्तं न फलाय प्रकल्प्यते । तयाऽपात्रेषु यद्दानं निष्फलं तद्विदुर्बुधाः ॥ २ ॥ " इत्यादिदेशनाप्रवृत्तौ जीवहिंसानुमतिलाभान्तरायप्रसङ्गस्य ७७ ये तु दानं प्रशंसन्ति यधमिच्छन्ति प्राणिनाम् । ये वनं प्रतिषेधन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194