Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१५९
बज्रलेपायमानत्वात् । तस्मादेतद्भणितं तु विशेषविषयं वक्तुं युज्यते । जे इति पादपूरणार्थी निपातः ॥ १६९ ॥ आगमविहिअणिसिद्धे अहिगिच्च पसंसणे णिसेहे अ । लेसेण वि णो दोसो एस महावक्कगम्मत्थो ॥ १७० ॥
आगमे सिद्धान्ते विहितं निषिद्धं च दानमधिकृत्य प्रसने निषेधे च, लेशेनापि नो दोषः, सत्प्रवृत्तिरूपस्य विहितदानव्यापारस्य हिंसारूपत्वाभावेन तत्प्रशंसने हिंसानुमोदनस्याप्रसक्रमात् प्रत्युत सुकृतानुमोदनस्यैव संभवात्, निषिद्धदानव्यापारस्य चासत्प्रवृत्तिरूपस्य निषेधे वृत्तिच्छेदपरिणामाभावेनान्तरायानर्जनात्, प्रत्युत परहितार्थप्रवृत्त्यान्तरायकर्मविच्छेदादेव । तदिदमुक्तमुपदेषपदे
" आगमविहिअं तंते पडिसिद्धं चाहिगिच णो दोसो ति७८ ॥" आगमविहितं संस्तरणे सुपात्रे शुद्धभक्तादिदानमसंस्तरणे त्वशुद्धभक्तादिदानमपि तन्न निषिद्धं, निषिद्धं च कुपात्रदानादिकमनुकम्पादानं तु कापि न निषिद्धं यदाह
"मोक्खत्थं जं दाणं तं पर एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिं न कया वि पडिसिद्धं ७९ ॥ " एष महावाक्यगम्योऽर्थः ॥ १७० ॥
अहदपज्जत्थो पुर्ण मोक्खंगं होइ आगमाबाहा । एवं पइसुत्तं चिय वक्खाणं पायसो जुत्तं ॥ १७१ ॥
ऐदम्पर्यार्थः पुनर्मोक्षागं भवति, आगमाबाधा आगमा७८ आगमविहितं तन्त्रे प्रतिषिद्धं बाधिकृत्य नो दोष इति ॥ ७९ मोक्षार्थ यद्दानं तत्प्रति एष विधिः समाख्यातः । अनुकम्पादानं पुनर्जिनैः न कदापि प्रतिषिद्धम् ॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194