Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
व्यापाराद विधमानक्लिष्टचित्तनिरोधलक्षणोपेक्षासंयमाद् युक्तः। यद् यस्मादेष एवाध्यात्मध्यानयोग एव, सकलेऽपि योगशास्त्रे सारः परमसंवररूपस्याध्यात्मध्यानस्यैव सकलशास्त्रोपनिषद्भूतत्वात् । तदुक्तम्
“आश्रवो भवहेतुः स्यात् संवरो मोक्षकारणम् । इतीयमाईती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥" इति ॥१९॥
अध्यात्मध्यानयोगस्यैव फलमभिष्टौतिएअमि परिणमंते आणंदस्साबि होइ परिघुवी। एवं चिय साहूणं जीवन्मुत्तत्तणं जुत्तं ॥१९१॥
एतस्मिनध्यात्मध्याने, परिणमत्येकांगीभावमागच्छति । आनंदस्यापि साम्यसुखस्यापि, परिवृद्धिर्भवति, साम्यध्यानयोमिथो निष्कंपताबीजत्वात्। तदुक्तम्- "न साम्येन विना ध्यानं न ध्यानेन विना च तत् ।
निष्कम्पं जायते तस्माद् द्वयमन्योन्यकारणात् ॥"
इत्येवमेव च साधूनां जीवन्मुक्तित्वं युक्तं, जीवित्वे सति. सांसारिकानन्दातिशयितानन्दाऽभिव्यक्तेरेव जीवन्मुक्तिपदार्थत्वात् । तदिदमभिप्रेत्योक्तम्
"निजितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ . तथा-नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य " ॥इति॥ १९१॥ अध्यात्मपरिणतिक्रमादानन्दवृद्धिक्रमे भगवतीसम्मतिमाह

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194