Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 181
________________ १७१ द्वादिभेदाभिधानं च वैधर्म्यमात्राभिप्रायेणैवेति । भव्यत्वमेदे मानाभाव इति चेत्, न, तीर्थकर सिद्धत्वाद्यवच्छिन्ने नियामकस्यावश्यवाच्यत्वात्, सामान्यतः क्लुप्तकारणताकतत्तद्व्यक्तीनामेव तन्नियामकत्वमिति चेत्, तादृशनियामकत्वमेव हेतुत्वमिति तावव्यक्तिविशेषकल्पनापेक्षया भव्यत्वविशेष एवान्तरगत्वात् कल्पयितुं युक्त इति किं न विभाव्यते । विशेषरूपेण ततदूव्यक्तीनामन्यथासिद्धत्वान्न हेतुत्वमिति चेत्, तहि द्रव्यत्वेन जन्यभावत्वेनैक एवं कार्यकारणभावः स्यादिति तन्तुत्वादिना कारगत्वबुद्धिव्यपदेशयोरप्रामाण्यापत्तिः, पटत्वाद्यवच्छिन्नस्याकस्मिकतापतेस्तत्र तन्तुत्वादिना हेतुत्वमावश्यकं अन्यथा तदवच्छिन्नसामयनिश्वये एतावत्सत्वेऽवश्यं पटोत्पत्तिरित्यनिश्चयरूपादाकस्मिकत्वात् प्रवृत्तेर्दुर्घटत्वप्रसंगात्तादृशनिश्चय एव कृतिसाध्यताधीसंभवात्, तत्पटत्वाद्यवच्छिन्नस्याकस्मिकत्वं त्विष्टमेव, तद्धर्मावच्छित्रसामग्रीसत्वेऽपि तथा निश्चयायोगात्, तद्धर्मावच्छिन्ने प्रवृत्यभावाच्चेति चेत्, न, प्रवृत्यनौपयिककारणतायामेवं वक्तुमशक्यत्वात्, नियतान्वयव्यतिरेकप्रतियोगित्वरूपकारणताया विशेषरूपेणैव ग्रहसंभवाच्च, सादृश्यबुद्धयैव प्रवृत्त्युपपत्तेरन्यथान्वयव्यतिरेकव्यभिचारग्रहयोरविशेषेण कारणताबुद्धावप्रतिबन्धकत्वप्रसङ्गात् । एतेन विशेषान्वयव्यतिरेकाभ्यां सामान्यव्यभिचारानिर्णयानुगतागुरुविशेषान्तरानुपस्थितिलाघवादिप्रतिसंधानवशात् सामान्यत एव हेतुहे - तुमद्भावग्रहात्, ग्राहकाभावादेव न विशेषकार्यकारणभावसिद्धिरित्यपास्तम् । अपि च प्रत्येकं कारणानां स्वेतरयावत्कारणसहितत्वेन यावत्कारणरूपाया: सामग्र्याश्व तत्तत्सम्बन्धेन कार्य - व्याप्यत्वे गौरवादितरकारणविशिष्टचरमकारणस्यापि सामग्रीत्वे चरमकारणविशिष्टेतरकारणानां तथात्वे विनिगमकाभावात्, तत्त्वेन

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194