Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 173
________________ १६३ शमाच, एकत्वं, प्रत्यक्षानुमित्यादिस्थले उपयोगभेदनियामकः क्षयोपशमभेदोऽस्ति, अत्र तु तदभावादुपयोगैक्यमप्रत्यूहमिति भावः । अत एवाह-एवं पदार्थादिधियामेकोपयोगत्वे तेनोपयोगैक्ये तथाक्षयोपशमस्य नियामकत्वेन, ज्ञानान्तरे प्रत्यक्षानुमित्यादिरूपे न संकरदोषो न सांकर्यप्रसङ्ग इति ॥१७७॥ ननु वाक्यार्थज्ञानं मुख्यार्थानुपपत्तिज्ञानपर्यवसितं लक्षणानुग्राहकतयैवोपयुज्यते, तथा च यत्र पूर्वापरविरोधपरामर्शात्मकं वाक्यार्थज्ञानमुज्जम्भते तत्र लक्षणाजन्यवाक्यार्थज्ञानात्मक एक एव पर्यवसितः शाब्दबोधः संभवतीति पदार्थादिचतुष्टयक्रमः कल्पनामात्रमित्याशङ्कय समाधत्तेनणु फलिओवकत्थो एगो च्चिय कह चउब्विहो भणिओ। भष्णइ तहेव दीसइ सामण्णविसेसभावेणं ॥१७७॥ ननु फलितो वाक्यार्थ एक एव, तथा च कथं चतुर्विधो भणितोऽर्थ इति प्रक्रमाल्लभ्यते, भण्यते, तथैव पदार्थादिक्रमेणैव सामान्यविशेषभावेन दृश्यते, यथाहि घटादिद्रव्यं घटादिसामान्यात्मनाऽनुवृत्तं श्यामत्वरक्तत्वादिविशेषात्मना च क्रमानुबद्धतया व्यावर्त्तमानं दृष्टमिति तथैवांगीक्रियते, तथा प्रकृतश्रुतोपयोगोऽपि प्रतिनियतस्वसामान्यात्मना यथोचितकालमनुवृत्तः पदार्थादिविशेषात्मना च क्रमानुबद्धतया व्यावर्त्तमानो दृष्ट इति तथैवाभ्युपगन्तुं युज्यते । न हि दृष्टविरोधेन कल्पना संभवति, लक्षणा च पदार्थस्य पदार्थान्तरपर्यवसानार्थतयोपयुज्यते, न चात्र विधेयनिषेध्यविशेषग्रहः सूपपदः, भावभेदेन तस्यानियतत्वस्य प्रागुपपादितत्वात् , तस्मादाज्ञाशुद्धभावेन वाक्यान्तरार्थसमर्थनार्य महावाक्यार्थापेक्षाऽऽवश्यकी, न चायमेव पर्यवसितो मक्तुिभईति,

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194