SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भवेत् यत्र इति शङ्कनीयम्, यद् यस्मादधिकारिणो मोक्षाभिलाषिणः, जन्मभीतस्य संसारभयवतः, नैष धर्मः दुष्करः फले उत्कटेच्छासत्त्वे तदुपायज्ञानवतस्तदुपायप्रवृत्तौ विलम्बस्यायोगात् , तस्योत्कटेच्छाऽभावभावप्रयोज्यत्वाद्भवति च भववैराग्यामोक्षेच्छाया उत्कटत्वमतस्तद्वतो न मोक्षोपायानुष्ठानस्य दुष्करत्वमिति । तदिदमुक्तम् "भवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच स्यादेतनान्यथा क्वचित् ॥” इति ॥१८१॥ इत्यमधिकारिणो धर्मस्य न दुष्करत्वमिदमुक्तं, अनधिकारिणस्तु दुष्कर एवायमित्याहअपरिणए धम्ममी नाभव्यो संसयाइणा कुणइ । बद्धनिकाइअकम्मा तहा न एयं कुणइ जीवो ॥१८२॥ ___अपरिणते सम्यग्ज्ञानाभावेन मोक्षोपायतयाऽनिष्टे, धर्म, अभव्यो यथा संशयादिना न करोत्येनं धर्म आदिना विपर्ययानध्यवसायग्रहः, तथा बद्धमनन्तरं निकाचितं च सकलकरणायोग्यत्वेन व्यवस्थापितं कर्म चारित्रमोहाख्यं येनैतादृशः, जीवः सत्यकिविद्याधरादिवत् परिणतजिनप्रवचनोऽपि नैतं धर्म करोति, धर्मानुष्ठानहेतुभूताया उत्कटफलेच्छाया मिथ्यात्वमोहेनेव चारित्रमोहेनापि विघटनाविशेषात् ॥१८॥ यद्येवं बद्धनिकाचितकर्माणं प्रति धर्मानुष्ठानमजनयत उपदेशस्य नैःफल्यम्, तदा जिनोपदेशस्य सर्वसाधारण्यानुपपत्तिरित्याशङ्कायामाहएवं जिणोवएसो विचित्तरूवोऽपमायसारो वि । उचितावेक्खाइ चिय जुज्जइ लोगाण सव्वेसि ॥१८३॥ एवं बद्धनिकाचितकर्मणा धर्माननुष्ठाने, अप्रमादसारोऽपि
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy