________________
पुरस्कृताप्रमादोऽपि, जिनोपदेशः सर्वेषां लोकानाम् , उचितापेक्षयैव योग्यतानतिक्रमेणैव, विचित्ररूपो नानातात्पर्यको युज्यते ये यावद्धर्मयोग्यास्तेषां तावन्मात्रप्रवर्त्तनेनैव चरितार्थत्वात् , तत्रापुनर्बन्धकादयः केचित् सामान्यदेशनाया योग्याः, केचित् सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानकाईप्ररूपणाया:, केचिच्च नितचारित्रमोहमालिन्या अप्रमत्ततारूपंप्रवज्यादेशनाया इति ॥१८३॥ ___ अप्रमत्तताया एव सर्वसाधारणस्यापि जिनोपदेशस्य पुरस्करणे तु उपपत्तिमाहजह निविग्धं सिग्धं गमणं मग्गष्णुणो णगरलाभे । हेऊ तह सिवलाभे निचं अपमायपरिखुट्टी ॥१८४॥ ___यथा निर्विघ्नं व्याक्षेपत्यागेन, शीघ्रमविलम्बेन, मार्गझस्य गमनं पथः प्रध्वरवक्रादिप्रदेशवेत्तुः, नगरलाभे हेतुः, तथा नित्यं सर्वदाप्रमादपरिवृद्धिः प्रवज्याप्रतिपत्तिकालादारभ्योत्तरोत्तरगुणस्थानारोहक्रमेण प्रवर्द्धमानपरिणामरूपा, शिवलाभे हेतुः, अत एव यावन्तं कालं न मूलोत्तरगुणस्खलना तावानेव कालो निश्चयतः प्रव्रज्यापर्यायः परिगण्यते, तदुक्तमुपदेशमालायाम्- . __"न तहिं दिवसा पक्खा मासा वरिसा व से गणिज्जति । जे मूलउत्तरगुणा अक्खलिआ ते गणिज्जति ८४॥ इत्थं चाप्रमत्ततैव सर्वत्र भगवता प्रशस्तेत्युपपन्नम् ॥१८४॥ एतदेव निगमयन् प्रतिबन्धेऽप्येतदत्यागोपदेशमाह
८४ न तत्र दिवसाः, पक्षाणि, मोसा, वर्षाणि वा तस्य गण्यन्ते ।
ये मूलोत्तरगुणा अस्खलितास्ते गण्यन्ते ॥