Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 149
________________ १३९ अर्था शप्रापकत्वलक्षणलौकिकप्रामाण्यविलक्षणमलौकिकप्रामाण्यमुपपधत इत्याह-इत्युपदर्शितप्रकारेण, परिपूर्णार्थत्वादुत्सर्गापवादोभयमूर्तिकसकलार्थप्रापकत्वात् अविरुद्धं प्रमाणत्वं भवति अन्यथा त्वेकान्तोपदेशकत्वेन भगवद्वचनस्येतरवचनादविशेष एव स्याद, मिथ्यादृष्टिपरिगृहीतानां "न हिंस्यात् सर्वभूतानि" इत्यादिवचनानामपीदृशत्वात् , तत्रापि प्रामाण्यं व्यवहियत एवेति चेद्, व्यवह्रियताम्, न तु निश्चीयते । निश्चयनियामकस्याद्वादमुद्राऽभावादित्यवधेयम् ॥१३३॥ तदेवं निर्दोषे सूत्रानुज्ञेति व्यवस्थितं तषियामकनिर्दोषत्वाभावस्थानमाहरागदोसाणुगयं नाणुद्वाणं तु होइ णिहोस । जयणाजुअंमि तंमि तु अप्पतरं होइ पच्छित्तं ॥१३४॥ ___ रागद्वेषानुगतमनुष्ठानमब्रह्माघासेवनारूपं तु न निर्दोष भवति, अतो न तत्र सूत्रानुज्ञेति भावः। अत्राप्यपवादपदप्रवृत्तिबीजमाह- यतनायुते तस्मिन् सदोषानुष्ठाने, अल्पतरं तु प्रायश्चित्तं भवति, यथाऽपराधं प्रायश्चित्तप्रवृत्तेः ॥१३॥ इत्थं चैतनिषेधवाक्यं प्रत्यपवादाभावेऽपि यतनापूर्वकैत- . दनुष्ठानगतमनाचारविलक्षणप्रायश्चित्तबीजमपवादत्वमनपायमेवेत्युत्सर्गापवादयोः संख्यासाम्यं नानुपपन्नमित्याह जयणावेक्खाइ अओ उस्सग्गववायतुल्लसंखत्तं । उववजइ किचंमी पुवायरिया जहा पाहु ॥१३५॥ यतनापेक्षया व्रतसापेक्षाल्पतरप्रतिसेवापेक्षया अतो यतनापूर्वकसदोषानुष्ठानस्याप्यपवादत्वात् , उत्सर्गापवादयोः कृत्येऽनुष्ठाने तुल्यसंख्यत्वमन्यूनाधिकत्वं, उपपद्यते तन्नीत्या घटते, यथा प्राहुः पूर्वाचार्याः संघदासगणिक्षमाश्रमणप्रभृतयः ॥१३५॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194