Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
सन्नीदृशं गुर्वाश्रितं शासनं स्थानस्थमिति बहुनामश्रद्धाजननात् , बोलेइत्ति मज्जयति संसारसमुद्रे बहून् जनान् स्वाभिगृहीतादृष्टकल्याणमुग्धमतिलोकान्। यतो भणितं संमत्युपदेशमालादौ ॥१५२॥ जह जह बहुस्सुओ संमओ अ सीसगणसंपरिखुडो अ। अविणिच्छिओअसमए तह तह सिद्धंतपडिणीओ॥१५३।
यथा यथा बहुश्रुतः परिपठितबहागमः, संमतश्च बहुमतः संसाराभिनन्दिनां गतानुगतिकप्रवाहपतितानां तदनुवर्तिनां चान्येषां बाह्याडम्बरदर्शनमात्रोदितविस्मयानां मुग्धमतीनां च, च पुनः शिष्यगणैर्विनेयवृन्दैः संपरिवृतः समन्तात् परिवृतः, अविनिश्चितः सम्यगपरिणतश्च, प्रवचने ऐदम्पर्याज्ञानाद्विरत्यप्रहत्वाच, तथा तथा सिद्धान्तप्रत्यनीको रंजनकलादेयतापरबन्धनबाहुल्यहेतुयोगानिःशंकमसत्प्रवृत्त्या यथास्थितसिद्धान्तस्य विपर्यासापादनात्, अतो नेदृशगुर्वाश्रयणं युक्तं किन्तूक्तगुणवद्गुर्वाश्रयणमेव श्रेय इति भावः ॥१५३॥
मुगुरुसेवया कथमाज्ञायोगलाभ इत्याहसुत्तत्थाण विसुद्धी सीसाणं होइ सुगुरुसेवाए । सुत्ताओ वि य अत्थे विहिणा जत्तो दढो जुत्तो ॥१५४॥
शिष्याणां सुगुरुसेवया सूत्रार्थयोविशुद्धिर्भवति तत्प्रसादायतत्वात्तस्याः, इयमेव च परमा भगवदाज्ञा, सूत्रार्थयोरपि मध्येऽर्थ एव बलवानिति व्यञ्जयन्नाह-सूत्रादप्यर्थे विधिना मंडलीकरणादिरूपेण दृढो यत्नः कर्तुं युक्तः॥१५४॥
कुत इत्याह

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194