SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सन्नीदृशं गुर्वाश्रितं शासनं स्थानस्थमिति बहुनामश्रद्धाजननात् , बोलेइत्ति मज्जयति संसारसमुद्रे बहून् जनान् स्वाभिगृहीतादृष्टकल्याणमुग्धमतिलोकान्। यतो भणितं संमत्युपदेशमालादौ ॥१५२॥ जह जह बहुस्सुओ संमओ अ सीसगणसंपरिखुडो अ। अविणिच्छिओअसमए तह तह सिद्धंतपडिणीओ॥१५३। यथा यथा बहुश्रुतः परिपठितबहागमः, संमतश्च बहुमतः संसाराभिनन्दिनां गतानुगतिकप्रवाहपतितानां तदनुवर्तिनां चान्येषां बाह्याडम्बरदर्शनमात्रोदितविस्मयानां मुग्धमतीनां च, च पुनः शिष्यगणैर्विनेयवृन्दैः संपरिवृतः समन्तात् परिवृतः, अविनिश्चितः सम्यगपरिणतश्च, प्रवचने ऐदम्पर्याज्ञानाद्विरत्यप्रहत्वाच, तथा तथा सिद्धान्तप्रत्यनीको रंजनकलादेयतापरबन्धनबाहुल्यहेतुयोगानिःशंकमसत्प्रवृत्त्या यथास्थितसिद्धान्तस्य विपर्यासापादनात्, अतो नेदृशगुर्वाश्रयणं युक्तं किन्तूक्तगुणवद्गुर्वाश्रयणमेव श्रेय इति भावः ॥१५३॥ मुगुरुसेवया कथमाज्ञायोगलाभ इत्याहसुत्तत्थाण विसुद्धी सीसाणं होइ सुगुरुसेवाए । सुत्ताओ वि य अत्थे विहिणा जत्तो दढो जुत्तो ॥१५४॥ शिष्याणां सुगुरुसेवया सूत्रार्थयोविशुद्धिर्भवति तत्प्रसादायतत्वात्तस्याः, इयमेव च परमा भगवदाज्ञा, सूत्रार्थयोरपि मध्येऽर्थ एव बलवानिति व्यञ्जयन्नाह-सूत्रादप्यर्थे विधिना मंडलीकरणादिरूपेण दृढो यत्नः कर्तुं युक्तः॥१५४॥ कुत इत्याह
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy