________________
१५०
वान्, तथा स्वसमयस्य चरणकरणाद्यनुयोगभेदभिन्नस्य प्ररूपकस्तैस्तैरुपायैरुपदेशकः, परिणतश्च वयसा व्रतेन च, प्राज्ञश्च बहुबहुविधादिग्राहकबुद्धिमान्, अत्यर्थमतीव, एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद्विपर्ययभाग् भवतीत्येवमेष विशेष्यत इत्येवंभूतो गुरुः श्रद्धेयः ॥ १५० ॥ स्वसमयप्रज्ञापकत्वं विशेषतो लक्षयतिजो हेउवापक्खमि उओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो ॥ १५१ ॥
यः कश्चिद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि, हेतुको युक्तिप्रणयनप्रवीणः, आगमे च देवलोकपृथ्वीसंख्यादावर्षे आगममात्रगम्ये, आगमिक आगममात्रप्रज्ञापनाप्रवीणः, स स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह — सिद्धान्तविराधको जिनवचना1 नुयोग विनाशकः, अन्यः प्रागुक्तविशेषणविकलः साधुः, तथाहियुक्तिमार्गसहेष्वप्यागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावान्न श्रोतॄणां दृढा प्रतीतिः कर्त्तुं पार्यते, आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुकयन्नसंपादितनियतार्थप्रतीतिर्विफलारम्भत्वेन स्वयमेव वैलक्ष्यं भजते, श्रोतुश्वानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यसिद्धान्त आराधितो भवति ॥ १५१ ॥
एतद्विलक्षणं गुरुत्वाभिमानिनमवगणयन्नाह -
जो ए अगुणविउत्तो सो निद्धम्मो सुअ विडंबंतो । गुरुनामेणं लोए बोलेह बहू जओ भणिअं ॥ १५२ ॥
य एतद्गुणवियुक्त उभयज्ञत्वादिगुणरहितः, स निर्द्धर्मां श्रुतचारित्रधर्मपराक्मुखः, गुरुनाम्ना श्रुतं जिनमतं विडम्बयन्