________________
नित्यत्वक्षतिरिति चेन्न, फलवत्त्वेऽपि नित्यत्वाविरोधात्, “यदकरणे प्रत्यवायस्तस्यैव नित्यत्वात् " इति दिक् ॥१०८॥
यत एवमुक्तप्रघट्टेनाविचारितानुष्ठाने दोषबाहुल्यमुपलभ्यते ततो गुणावहमर्थमुपदिशतितम्हा गुरुलहुभावं गाउं णिव्वेअओ पवट्टिजा सज्झायाइसु सम्मं तत्तो तिव्वा हवइ सद्धा॥१०९॥
तस्मात् , अन्यथा दोषदर्शनात्, गुरुलघुभावं गुणदोषविषयम् , ज्ञात्वा शास्त्रनीत्या विमृश्य निर्वेदतस्तात्विकसंसारनैर्गुण्यावधारणात्, स्वाध्यायादिषु सूत्रपौरुषीकरणादिसाधुसमाचारेषु सम्यक् क्षणमप्यप्रमादेन प्रवर्तेत स्वाध्यायादेः प्रधानयोगत्वात् , यतस्ततः स्वाध्यायादौ सम्यक्प्रवृत्तेरतिगाढप्रतिबन्धाप्रधानबोधोपपत्तेः तीव्रा अतिशयवती श्रद्धा भवति ॥१०९॥ णाए अण्णायाओ अणंतगुणिआ पवट्टए एसा । तीए किरिआतिसओ ततो विसिट्ठो खओवसमो॥११०॥
यतः ज्ञाते वस्तुनि अज्ञाताद्वस्तुनः सकाशात् अनन्तगुणिता श्रद्धा प्रवर्द्धते । दृश्यते खेकस्मिन्नेव रत्नेऽपरिनिश्चितदारियोपशमादिमाहात्म्यानां शिक्षातो गुरूपदेशाद्वा तनिश्चयवतां चानन्तगुणः श्रद्धाविशेषस्तद्वदिहापि भावनीयम् । तया तीव्रश्रद्धया, क्रियातिशयो भवति । विज्ञातगुणरत्नश्रद्धयातत्पालनपूजनस्तवनादिभावप्राबल्याचत्परिपालनाधत्यन्तादरवत् साधूनामपि हातगुणक्रियाश्रद्धयातल्पालनादिविषयात्यन्तादरोपपत्तेः, ततो विशिष्टः सानुबन्धः क्षयोपशमो ज्ञानावरणादिकर्मक्षयोपशमो भवति, सम्यचिकित्साप्रयोगादिव तथाविधरोगनिग्रह इति ॥११०॥ .