Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 138
________________ . . १२८ द्रव्यपरिग्रहपरिणतिर्न दोषाय द्रव्यहिंसापरिणतिस्तु दोषारेति तु स्वगृह एव निगद्यमानं शोभते । एतेन ततो घातकचित्ताक्षेपोऽपि निरस्तः। अथापवादं विना जानतो हिंसा दुष्टैव दृष्टा, हन्त तर्हि सौम्य ! जानतोऽपवादं विना द्रव्यपरिग्रहोऽपि किं न तया, अशक्यपरिहारः स इति चेत्, इतरत्रापि तुल्यमेतत् , नघुपेत्य हिंसादौ प्रवृत्तिरितरस्यापि सम्भवति । अथ क्षीणेऽन्तराये नाशक्यपरिहारसंभवो धर्मोंपकरणधरणं तु व्यवहारसंग्रहार्थमिति चेत्, अस्तु तथा, तथापि दोषनिवारणं कुतः, रागाधभावादिति चेत्, एवं गमनादिप्रवृत्तावपि पुद्गलाभिघातजपरप्राणव्यपरोपणे रागादिरहितस्य किं दूषणं, योगानामशुद्धतापत्तिरिति चेत्, न, योगानामशुद्धतायाः शुद्धताया वा स्वरूपतोऽव्यवस्थितत्वाद्रागादिसाहित्यासाहित्याभ्यामेव तव्यवस्थितेः । अत एवापवादपदप्रत्ययाया विराधनाया अपि निर्जराहेतुत्वं तत्र तत्र व्यवस्थापितम् । व्यवहारतोऽशुद्धा अपि योगाः कयं भगवतां सम्भवन्तीति चेत्, नन्वेवं व्यवहारतोऽशुद्धा नीहारादिविषयोऽपि तेषां त्यज्यन्ताम्, शास्त्रव्यवहारतः शुद्धा एव त इति चेत्, इतरेऽपि ततस्तथैवेति दिक् ॥११॥ ननु यद्येवं द्रव्यहिंसादेन गर्हणीयत्वं तदा कः प्राग्गईणीयलेशोऽस्ति, कथं च न किञ्चिदपि गर्हणीयं क्षीणमोहस्येत्याशङ्कायामाहसव्वे वि अ अइयारा संजलणाणं तु उदयओ हुँति । एयस्स होइ निट्ठा तयभावे वीयरागस्स ॥११९॥ सर्वेऽपि चातिचाराः संज्वलनानामुदयाद् भवन्ति, चारित्रिणा हस्तिशरीरव्रणतुल्याचारित्रदेशमंगरूपाः, तदभावे वीतरागस्य,

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194