________________
.
.
१२८ द्रव्यपरिग्रहपरिणतिर्न दोषाय द्रव्यहिंसापरिणतिस्तु दोषारेति तु स्वगृह एव निगद्यमानं शोभते । एतेन ततो घातकचित्ताक्षेपोऽपि निरस्तः। अथापवादं विना जानतो हिंसा दुष्टैव दृष्टा, हन्त तर्हि सौम्य ! जानतोऽपवादं विना द्रव्यपरिग्रहोऽपि किं न तया, अशक्यपरिहारः स इति चेत्, इतरत्रापि तुल्यमेतत् , नघुपेत्य हिंसादौ प्रवृत्तिरितरस्यापि सम्भवति । अथ क्षीणेऽन्तराये नाशक्यपरिहारसंभवो धर्मोंपकरणधरणं तु व्यवहारसंग्रहार्थमिति चेत्, अस्तु तथा, तथापि दोषनिवारणं कुतः, रागाधभावादिति चेत्, एवं गमनादिप्रवृत्तावपि पुद्गलाभिघातजपरप्राणव्यपरोपणे रागादिरहितस्य किं दूषणं, योगानामशुद्धतापत्तिरिति चेत्, न, योगानामशुद्धतायाः शुद्धताया वा स्वरूपतोऽव्यवस्थितत्वाद्रागादिसाहित्यासाहित्याभ्यामेव तव्यवस्थितेः । अत एवापवादपदप्रत्ययाया विराधनाया अपि निर्जराहेतुत्वं तत्र तत्र व्यवस्थापितम् । व्यवहारतोऽशुद्धा अपि योगाः कयं भगवतां सम्भवन्तीति चेत्, नन्वेवं व्यवहारतोऽशुद्धा नीहारादिविषयोऽपि तेषां त्यज्यन्ताम्, शास्त्रव्यवहारतः शुद्धा एव त इति चेत्, इतरेऽपि ततस्तथैवेति दिक् ॥११॥
ननु यद्येवं द्रव्यहिंसादेन गर्हणीयत्वं तदा कः प्राग्गईणीयलेशोऽस्ति, कथं च न किञ्चिदपि गर्हणीयं क्षीणमोहस्येत्याशङ्कायामाहसव्वे वि अ अइयारा संजलणाणं तु उदयओ हुँति । एयस्स होइ निट्ठा तयभावे वीयरागस्स ॥११९॥
सर्वेऽपि चातिचाराः संज्वलनानामुदयाद् भवन्ति, चारित्रिणा हस्तिशरीरव्रणतुल्याचारित्रदेशमंगरूपाः, तदभावे वीतरागस्य,