Book Title: Tilak Manjri Author(s): Dhanpal, Padmasagar, Lavanyasuri Publisher: Jain Granth Prakashak Sabha View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी] ॐ विजयलावण्यसुरिविरचिता परागाभिधा विवृतिः॥ वैबुधागम आमोद-दायी सम्यक् प्रसाध्यते । लावण्येनसुरेणाथ मया मूलमधुग्रहः ॥ १८ ॥ अनुष्टुप् ॥ युग्मम् ॥ सुवर्णादपि मनोज्ञ इत्यर्थः, एवं सुष्टु वर्णो वर्णनं यत्र स तथा, दुष्प्राप्य०-दुष्प्राप्याः सदलंकारा शब्दशोभका अनुप्रासादयः शब्दार्थशोभका उपमादमो वा यत्र तादृशो यो धनपालस्य धनपालाभिधकवेः अर्थस्तिलकमञ्जरीगतोऽर्थस्तस्य नायको ज्ञापकः, वैबुधागमः वैबुधस्य पाण्डित्यस्यागमो येन स तथा, आमोददायी आमोदो हर्षस्तद्दायी, प्रसाध्यते क्रियते, लावण्येन लावण्यसूरिनाम्ना सुरेण-बुधेन, मया अस्मच्छब्दवाच्येन, मूलमधुप्रहः मूलं मूलग्रन्थो मधुमेहं स्वादुज्ञानं येन स तथा। मकरन्दपक्षे __परागः-मकरन्दोऽपि, न परागः-न मकरन्द इति विरोधस्तत्परिहारे-अकारप्रश्लेषेण अनपरागः-न अपगतो रागो यस्य स तथा, असुवर्णोऽपि न विद्यन्ते शोभना वर्णाः शुक्लादयो यत्र तादृशोऽपि, सुवर्णकः-शोभना वर्णाः शुक्लादयो यत्र स तथा इति विरोधः, तत्परिहारे असुवर्णः कुत्सितं सुवणे काञ्चनं येन स तथा। वर्णोत्कर्षेण सुवर्णादपि मनोज्ञ इत्यर्थः । दुष्प्राप्य० दुष्प्राप्या सदलंकारा उत्तमहारादयो यत्र तादृशो यो धनपालार्थः कुबेरवैभवस्तस्य नायकः प्रापकः, कल्पवृक्षस्य कल्पितदातृत्वाद्, वैबुधागमः विबुधागमस्य देववृक्षस्य कल्पतरोरयमिति तथा, कल्पवृक्षसम्बन्धीत्यर्थः । आमोददायी आमोदः परिमलस्तदायी, प्रसाध्यते अलंक्रियते। लावण्येनसुरेण लावण्यस्य सौन्दर्यस्य इनः स्वामी यः सुरस्तेन, मया मा लक्ष्मीस्तया हेतुभूतया । आमूलमधुग्रहः-मूलपर्यन्तमभिव्याप्य मधुग्रहा मधुपा यत्र स तथा ॥१७-१८॥ ॥ इति विवृतिमङ्गलाचरणटिप्पनिका ॥ 卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ इह जगति सर्वेऽपि शिष्टा अभीष्टे वस्तुनि प्रवर्तमाना अभीष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इति मत्वा परमश्रावको धनपालकविः ‘स वः पातु' इत्यादिश्लोकपञ्चकेनेष्टाभिमताधिकृतदेवतानां नमस्कारान् करोति । तत्राद्येन श्लोकद्वयेन जिनस्य चतुर्विशतितीर्थकृताञ्चेष्टदेवतानमस्कारोऽपरेण चाभिमतदेवताया नामेयस्यैकेन चाधिकृतदेवताया सरस्वत्या इति । तत्र रागादिजेतृत्वादिसामान्यगुणेनेष्टदेवता गोत्रपारम्पर्यविघ्नविनाशकत्वादिगुणं चाश्रित्याभिमतदेवता शास्त्रकरणे च प्रवर्तमानस्य विशिष्टवागर्थप्रापकत्वेनाधिकृतत्वाद् अधिकृता देवता सरस्वती । तत्र तावद् आद्यं श्लोकद्वयं व्याख्यायते-स जिनो रागादिजेता देवः, पातु रक्षतु, वो युष्मान् , य ईक्षते [ पश्यति ] सामान्यरूपतया च जानाति, दर्शनज्ञानार्थत्वा. दीक्षतेः । किं तत् ? जगत्त्रयं भुवनत्रयमधोमध्योवलक्षणम् , चतुर्दशरज्ज्वात्मकं लोकमित्यर्थः, एतच्चोपलक्षणम् , तथाऽलोकमपि धर्मादिपदार्थशून्यमनन्तं पश्यति जानाति च । कीदृशं जगत्त्रयम् ? व्याप्तं युक्तम् । कैः ? रूपैः शरीरैः । कियद्भिः ? अनन्तैः, अनादित्वेन न पुनः पर्यवसानैः [अपर्यवसानैः-अपर्यवसानत्वेन ] मुक्तानां शरीर• पर्यवसानां नन्तरत्वादसम्भवात् ? [ मुक्तानां शरीरपर्यवसानेनानन्तत्वासम्भवात् ] । कस्य रूपैः ? एकैकजन्तोरेकस्यैकस्य जीवस्य, अनादित्वं रूपाणामनादौ संसारेऽनन्तशो जन्ममरणप्राप्तेः । पुनः कीदृशम् ? कृत्स्नं परिपूर्ण समग्रं नैकदेशम् । कथमीक्षते ? प्रतिक्षणं निरन्तरं न पुनरन्तरमस्तीति ॥१॥ ॐ श्रीपनसागरविबुधरचिता टीका तत्र तावदशेषप्रत्यूहव्यूहोपशमनसमर्थाव्यर्थावितथार्थसर्वथामाङ्गल्यसूचाचतुरैरतिगहनगम्भीरोदारशब्दैराद्यपद्यावतारमारचयति-स व इति । व्याख्या०-स जिनो वः पात्विति तावदन्वयः । जिनस्तु रागादिसकलाभ्यन्तरारातिजेतृत्वाद्वीतरागापरपर्यायोऽर्हन्नेवाऽवगन्तव्यस्तदितरेषां हरिहरादिदेवानां रागादिविलसितानेकलक्षणदर्शनेन रागादिजेतृत्वाभावात् । ननु तग्छब्दस्य यच्छब्दसापेक्ष्यत्वेन स को जिन इत्यत आह-ईक्षते य इति, योऽर्हन् जगत्त्रयमीक्षते पश्यतीति सटङ्कः । ईक्षत इत्यत्र भूतस्य भविष्यतो वाऽर्हतो ग्रन्थकर्तृसाक्षाबुद्धिस्थत्वेन वार्तमानिकनिर्देश इति । मा भूदस्मदावेरिवाऽ For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 84