Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ टिप्पनक-व्याख्या-विवृतिविभूषिता न स्वप्नेऽपि समाश्रिता रिपुजनं म्लानिं गता नोन्नतौ, लग्ना साधुगुणद्विषां शुचितया कर्णे न दुष्टात्मनाम् । निर्दोषाऽहमनेन दिक्षु गमिते यात्मीयवार्तामिव, व्याकर्तुं व्रजति स्म यस्य तरसा कीर्तिः सुरेन्द्रालयम् ॥४९॥[ शार्दूलविक्रीडितवृत्तम् ॥ ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ तरसा-शीघ्रम् ॥ ४९ ॥ 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 9 अथ यशोवर्णनार्थमाह-यस्य कीर्तिरित्यमुना प्रकारेणाऽऽत्मीयवाता व्याकर्तुं भाषयितुमिवोत्प्रेक्ष्यते । सुरेन्द्रालयमूर्ध्वलोकं तरसा व्रजति स्म शीघ्रं जगामेत्यर्थः । इतिशब्दोक्तां वाती दर्शयति, निर्दोषा सत्यहमनेन राज्ञा दिक्षु गमितेति, अथ निर्दोषत्वमेवाऽऽमनो व्यक्तीकरोति, स्वप्नेऽप्यहं रिपुजन न समाश्रिता, नाऽप्येतद्भूपस्योनतावहं म्लानि गता, साधुगुणद्विषां दुष्टात्मनां कर्णे शुचितयाऽहं न लग्ना, इत्येतावदोषाभावे सत्यप्यहमनेनेतस्ततो भ्रामितेति वार्ताकथनाय सुरेन्द्रालयं यत्कीर्तिर्यातीति वृत्तार्थः ॥४९॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ भोजराजयशो वर्णयति-न स्वप्नेऽपीत्यादिना । यस्य कीर्तिः सुरेन्द्रालयं तरसा नजति स्मेत्यन्वयः। यस्य श्रीभोजराजस्य, कीर्तिः यशः, सुरेन्द्रालय-देवराजभवनम् , देवलोकमित्यर्थः, तरसा-शीघ्रम्, व्रजति स्म जगाम, देवलोकपर्यन्तं प्रसृतेति भावः । अत्रोत्प्रेक्षते कविः किमर्थं देवलोकं जगाम ? आत्मीयवाती व्याकर्तुमिव, आत्मीयवाता-निजसमाचारम् , व्याकर्तुमिव-कथयितुमिव, कीदृशीं वाता ? निर्दोषाऽहमनेन दिक्षु गमितेति, निर्दोषा-दोषरहिता, अहं-कीर्तिः, अनेन भोजराजेन, दिक्षु-आशासु, गमिता-भ्रमिता, इतस्ततः पर्यटनं कारितेत्यर्थः, अनेन कीर्तेः सर्वत्र प्रसारः सूचितः, इति-एवंप्रकारां वार्ताम् । कथं निर्दोषा ? यतः स्वप्नेऽपि रिपुजनं न समाश्रिता, उन्नतौ म्लानि न गता, साधुगुणद्विषां दुष्टात्मनां कर्णे शुचितया न लग्ना, ततो निर्दोषेत्यर्थः । हेतुहेतुमद्भावेन व्याख्यानाद् इत्यर्थलाभः, स्वप्नेऽपि-निद्रावस्थायामपि आस्तां जागरणावस्थायाम् , रिपुजनभोजशत्रुम् , न समाश्रिता-नाश्रयत्वेन स्वीकृतवती, अनेन ये भोजरिपवस्ते न कीर्तिभाजनमिति सूचितम् । उन्नतौ-उदये वृद्धौ वा, म्लानिं तेजोहीनताम्, मन्दतामित्यर्थः, न गतान प्राप्ता, अनेन प्रतिदिनं भोजकीर्त्या वर्द्धमान उदयो ज्ञापितः । साधुगुणद्विषां-उत्तमगुणद्वेषवतां वा, दुष्टात्मना-दुर्जनानाम्, कर्णे-श्रोत्रे, शुचितयापवित्रतया, न लग्ना-न प्रविष्टा, अदितद्विपरीतानां सज्जनानां कर्णकोटरे प्रविष्टा, अनेन सज्जनानां पुरतो भोज कीर्तिवर्णनं भवतीति सूचितम् , अत्र व्रजतीवेति क्रियोत्प्रेक्षालङ्कारः, अतिशयोक्तिः, एकस्यैव 'अहम्' इति पदस्य सकलक्रियाभूतक्तप्रत्ययेऽन्वयाद् दीपकालङ्कारः, एषां मिथो नैरपेक्ष्यात् संसृष्टिः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४९ ॥ ॐ अस्य पञ्चाशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥॥ 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथैतावद्रूपवर्णने किमित्येतत्कथाकरणप्रयोजनं दर्शितमित्येतद्दर्शयति, निःशेषेति, व्याख्या० निःशेषवाङ्मयविदोऽपि समस्तशास्त्रज्ञातुरपि जिनागमोक्ता जिनप्रवचनोक्ताः कथाः श्रोतुं समुपजातकुतूहलस्य संजातकौतुकस्याऽवदातचरितस्य राज्ञो भोजस्य विनोदहेतोः स्फुटः प्रकटोऽद्भुतो रसः शृङ्गारादिको यस्याः सा तथेयं कथा मया रचितेति । भोजराजविनोद एवाऽत्र प्रयोजनं दर्शितं भवतीति वृत्तार्थः ॥५०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84