Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता ___ अस्ति रम्यतानिरस्तसकलसुरलोका स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूगामुत्पादिता प्रजापतिना [अ],
॥ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अस्तीत्यादि नगरीवर्णकः । शतक्रतुः-इन्द्रः ॥ अ॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथोक्तप्रयोजनादिरयं कथामारचयति, अस्ति रम्यतत्यारभ्योत्तरकोशलेष्वयोध्येति पर्यन्तमुत्तरकोशलदेशेवयोध्या नाम नगर्थस्तीति भावः । अथ तस्या विशेषणान्याह-ऋथंभूताऽयोध्या, रम्यतानिरस्तसकलसुरलोका-मनोज्ञत्वेन निरस्तः सकलस्वर्गलोको यया सा तथा, पुनः कथंभूता, उत्पादिता-निष्पादिता, केन प्रजापतिना-ब्रह्मणा, किमर्थं शततमक्रतुवाञ्छाविच्छेदार्थ शततमो यः ऋतुर्यागो देवपूजाविशेषस्तस्य वाञ्छाविनाशाय, इवोत्प्रेक्षायां, केषां पार्थिवानां, कथंभूतानामिक्ष्वाकृणामिक्ष्वाकुवंशोद्भवानां, ननु प्रजापतिना कथमेषां तद्वाञ्छाविच्छेदो विहित इति विशेषणद्वारा दर्शयति, कथंभूतन प्रजापतिना स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन, स्वस्य । स्वपदमिन्द्रपदं तस्याऽपहार उद्दालनं तेन शङ्कितो यः शतक्रतुरिन्द्रस्तत्प्रार्थितन, अयं भावोऽयोध्या हि सुरलोकाधिकत्वेन सामान्यनिर्मिता कथं संभवति, तेन लोके परमोकृष्टेन ब्रह्मणा निर्मितेत्युत्प्रेक्ष्यते । ननुतन्निर्माणे तु शततमऋतुवाञ्छाविच्छेदः कथं प्रयोजनमिति चेच्छृणु, अत्राऽ'युत्प्रेक्षयैवाऽर्थो निगद्यत इक्ष्वाकुपार्थिवैर्हि नवनवतिपूजाविशेषाः कृता यावच तेषां शततमपूजाविशेषवाञ्छ। सगुत्पन्ना तावदिन्द्रेण ज्ञातमेभिः शततमपूजाफलक मत्पदमवश्यं ग्राह्य तथा च कथमहं भविष्यानीति विचिन्त्य ब्रह्मणः प्रार्थितं यत्त्वयैतेषां शततमक्रतुवाञ्छाविच्छेदः कार्य इति, तत्प्रार्थनाभन्मभीरुणा ब्रह्मणा सुरलोकादप्यधिकाऽयोध्या निर्मिता, तां च दृष्ट्वा तैश्चिन्तितं यच्छततमक्रतुलभ्यं स्वर्गाधिपत्य तञ्चैतन्नगर्याधिपत्येन लब्धमेवेति तेषां तद्वाञ्छाविच्छेदो जात इति तात्पर्याथैः ॥ अ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ ___ कृतमङ्गलाचरणादिपीठिकाभागः कविः कथां कथयति-अस्ति रम्यतेत्यादिना । उत्तरकोशलेषु 'अयोध्या' इति यथार्थाभिधाना नगरी अस्तीत्यन्वयः । उत्तरकोशलेषु-कोशलदेशोत्तरविभागे, कोशलशब्दस्य देशविशेषवाचित्वाद् बहुवचनेन निर्देशः, अयोध्येति='अयोध्या' इतिनाम्नी, यथार्थाभिधाना=अर्थमवयवार्थमनतिकम्य वर्तत इति यथार्थम् , यथार्थमभिधानं नाम यस्याः सा तथा, अवयवार्थश्च योद्धं शक्या योध्या, न योच्या अयोध्या, प्रचुररक्षणसाधनकलिततया रिपुभिरनाक्रमणीयेति भावः । नगरी "पुण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैयुता । अनेकजातिसम्बद्धा नैकशिल्पिसमाकुला । सर्वदैवतसम्बदा नगरीत्यभिधीयते " इत्युक्ता पुरी, अस्ति-विद्यते । कीदृशी नगरी ? रम्यतानिरस्तसमस्तसुरलोका-रम्यतया रमणीतया निरस्तोऽधरीकृतः समस्तः सकल: सुरलोको देवप्रदेशो यया सा तथा । अत्रातिशयोक्तिरलङ्कारः । कीदृशीय नगरी ? उत्पादितेव-निर्मितेव, केन ! प्रजापतिना-ब्रह्मणा, कीदृशेन प्रजापतिना ? स्वपदापहारशङ्कितशतक्रतुमाथितेन-स्वपदमिन्द्ररूपा निजपदवी तस्यापहारेऽपहरणे शङ्कितो यः शतक्रतुरिन्द्रस्तेन प्रार्थितेन, किमर्थं प्रार्थितेन ? इक्ष्वाकूणां पार्थिवानां शततमक्रतुवाञ्छाविच्छेदार्थम्, इक्ष्वाकृणाम्इक्ष्वाकुवंशजातानाम् , पार्थिवानां राज्ञाम् , शततमक्रतुवाञ्छाविच्छेदार्थ-शततमस्य क्रतोरश्वभेधाख्ययज्ञस्य या वाञ्छा इच्छा तस्या विच्छेदार्थ विनाशार्थम् । अत्रोत्प्रेक्षालङ्कारः । अयं भावः-यः कतूनां शतं कुर्यात् स इन्द्रो भवति 'अश्वमेधशतादिन्द्रो जायते' इति श्रुतेः, इक्ष्वाकुभूपालेनेवनवतिः ऋतवः कृता यदि शततम ऋतं करिष्यन्ति तदा ममेन्द्रपदवी तदायत्ता भविष्यतीति शङ्कावता इन्द्रेण ब्रह्मा प्रार्थितः -यदुत, अमीषां भूपानां शततमक्रतुवाञ्छा. विच्छेदो यथा भवेत्तथा कर्तव्यमिति, ब्रह्मणा च स्वर्गादपि सुन्दरीय नगरी रचिता यां दृष्टया निरुक्तभूपानां स्वर्गच्छा तत्कारणीभूतशततमक्रतुवाञ्छा च विलीना [ यद्वा किमर्थ निर्मिता ! इक्ष्वाकूणां पार्थिवानां शततमक्रतवाञ्छाविग्छेदार्थमिति योजना । अनाय भावः-यदीभे इक्ष्वाकुभूपालाः शततमं ऋतुं करिष्यन्ति तदा ममेन्द्रपदवी तदाधिता भविष्यतीति शावता इन्द्रेण ब्रह्मा पार्थितः-यदुत, स्वर्गादपि सुन्दरी एतन्नगरी करणीया येन तामवलोक्यमे भूपाः स्वर्ग तत्साधनं शततम ऋतुं च नेच्छेयुः, ततो ब्रह्मणेयं नगरी निर्मिता ॥ ॥
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84